SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ चार्यविनिर्मितम् ] साधारणजिनस्तवनम् सोमप्रभाचार्यमभावनाथ .. यदृच्छया सञ्चरते न यत्र । तत्रापि लब्धप्रसरं लभन्ते ज्ञानं भवन्तं भविनः स्तुवन्तः ॥ १० ॥ .. [१२] शान्तावेषापराभिधानं साधारणजिनस्तवनम् । शान्तो वेषः शमसुखफलाः श्रोतृगम्या गिरस्ते कान्तं रूपं व्यसनिषु दया साधुषु प्रेम शुभ्रम् । इत्थम्भूते हितकृतपतेस्त्वय्यसङ्गा विबोधे प्रेमस्थाने किमिति कृपणा द्वेषमुत्पादयन्ति ॥१॥ अतिशयवती सर्वा चेष्टा वचो हृदयङ्गमं शमसुखफलः प्राप्तौ धर्मः स्फुटः शुभसंश्रयः । मनसि करुणा स्फीता रूपं परं नयनामृतं किमिति सुमते ! त्वय्यन्यः स्यात् प्रसादकरं सताम् ॥२॥ निरस्तदोषेऽपि तरीव वत्सले कृपात्मनि त्रातार सौम्यदर्शने । हितोन्मुखे त्वय्यपि ये पराङ्मुखाः पराङ्मुखास्ते ननु सर्वसम्पदाम् ॥३॥ सर्वसत्त्वहितकारिणि नाथे न प्रसीदति मनस्त्वयि यस्य । मानुषाकृतितिरस्कृतमूर्तेरन्तरं किमिह तस्य पशोर्वा ? ॥४॥ त्वयि कारुणिके न यस्य भक्तिर्जगदभ्युद्धरणोद्यतस्वभावे । नहि तेन समोऽधमः पृथिव्यामथवा नाथ ! न भाजनं गुणानाम् ॥५॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy