SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ( २८ ) जैनस्तोत्र सन्दोहे [ ११ ] श्री सोमप्रभाचार्यविनिर्मितम् श्री जिनस्तवनम् । [ श्रीसोमप्रभा व्यति साधितसाधुतपाः कृपां शमघनामघनानाकरीं च यः तमविरामविराद्धमनोभवं जिनममानममानगुणं स्तुवे ॥ १ ॥ विभवदं भवदसिरोरुहं नमति यो मतियोगपरः प्रभो ! | सहतमोहतमो गतमत्सरः समतया मतया परिरभ्यते ॥ २ ॥ जिन ! तवाऽऽनतवासवसंहते ! भुवनपावन ! पादपयोरुहे । कलितयालितया समवाप्यते शमधुरा मधुरा मधुवज्जनैः ॥ ३ ॥ शुभवतो भवतो वचसि श्रुते शमदमे भदमेघसमीरणे । अवमतां वमतां भविनां विभो ! परमते रमते न मनाग् मनः ॥ ४॥ दममता ममतामयभावनावनघनाघन ! नाथ ! तवागमात् । मम भवामभवा सपदि क्षयं विपदवाप दवानलसोदरा ॥ ५ ॥ विमल कोमलकोकनदारुणमतलो मतलोभहतिर्जिनः । रुचितताचितताररदः सतामवमभावमभाग्यपदं हतात् ॥ ६ ॥ भवशतावशतार्तसुरासुरत्रजन तो जनतोषकरः प्रभुः । स्मरविकारविकाशविबन्धकः सममना मम ना जयतादधम् ॥७॥ घतपा नतपाकरिपुर्जिनो विधुरसिन्धुरसिंह सहोदरः । विषमदोषमदोत्खननक्षमः शममयो मम योगमतिं क्रियात् ॥ ८ ॥ शुभवचा भवचारकमोचनः समदयो मदयोधजयी जिनः । -मदनसूदनसूचितविक्रमः प्रवरसंवरसन्ततये स्तुवे ॥ ९ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy