________________
(२६)
[भावदेव
जैनस्तोत्रसन्दोहे
[९] सर्वजिनस्तवः।
जिनपते ! द्रुतमिन्द्रियविप्लवं दमवतामवतामवतारणम् । वितनुषे भववारिधितोऽन्वहं सकलया कलया कलयाकया ॥१॥ तव सनातनसिद्धिसमागमं विनयतो नयतो न यतो जनम् । जिनपते ! सविवेकमुदित्वराधिकमला कमला कमलासयेत् ॥२॥ भवविवृद्धिकृते कमलागमो जिनमतो नमतो न मतो मम । न रतिदाऽमरभूरुहकामधुक् सुरमणीरमणीरमणीयता ॥३॥ किल यश:शशिनि प्रसृते शसी नरकतारकतारकतामितः । व्रजति शोषमतोऽपि महानहो विभवतो भवतो भवतोयधिः ॥४॥ न मनसो मम येन जिनेश ! ते रसमयः समयः समयत्यसौ । जगदभेदि विभाव्य ततः क्षणादुपरता परता परतापकृत् ॥५॥ त्वयि बभूव जिनेश्वर ! भास्वती शममता ममता मम तादृशी। यतिपते ! तदपि क्रियते न किं शुभवता भवता भवतारणम् ॥६॥ भवति यो जिननाथ ! मनः शमाञ्चित ! नुते तनुते तनुतेजसि । किमिव नो भविनस्तमतां सुखप्रसविता सविता सवितारयेत् ॥७॥ परमया रमया रमयात् तवाघ्रिकमलं कमलं कमलम्भयम् । न नतमानत मानतमां नमन् वरविभारविभारविभासुर ! ॥८॥ अमरसामरसामरनिर्मिता जिन ! नुतिर्ननु तिग्मरुचेर्यथा । रुचिरसौ चिरसौख्यपदप्रदा निहतमोहतमोरपुवीर ! मे ॥९॥