________________
सूरिसन्धः ] साधारणजिनस्तवः (२५) जयति कोपदवानलनीरदो जयति मानमहीरुहकुञ्जरः । जयति कूटकुडङ्गिहिमागमो जयति लोभमहोदधिमन्दरः ॥२॥ विजयते जगदेकविलोचनो विजयते निरुपाधिकबान्धवः । विजयते भवरोगचिकित्सको विजयते शिवपत्तनपण्डितः ॥३॥ जयति मारविकारनिशाकर- प्रसरसंवरणैकदिवाकरः । जयति संसृतिकाननसम्भ्रम- भ्रमणखिनजनैकसुधासरः ॥४॥ भविकमानसहसविलासभू- नयनचापलरोधमहौषधम् । सुभगतासुभगं करुणाक्षरं विजयते भुवनाधिपतेर्वपुः ॥५॥ अमरदानवमानवनायक- भ्रमरराजिविराजिपदाम्बुजः । जयति रत्नगणैरिव सागरः परिगतो विविधातिशयैः प्रभुः ॥६॥ विषयपङ्किलमोहजलोल्लसद्- बहुलरागतरङ्गभराकुले। विजयते विपुले भवपल्वले कमलमेकमहो जिनपुङ्गवः ॥७॥ शमनिधेः कट लोचनचारुता जिनपतेबपुरे मुखचन्द्रमाः । अहह धैर्यगुरोहृदयस्थली- भुवनभर्तुरहो भुजवैभवम् ॥८॥ देवोऽष्टादशदोषवर्जितवपुः सत्प्रातिहार्यश्रियं ।
बिभ्राणोऽष्टविधान् वहन्नतिशयांस्तांस्तांश्चतुस्त्रिंशतम् । पञ्चत्रिंशदुदारवागतिशयो नीलाब्जमुक्ता जया
कालिन्दी कनकप्रभो विजयते विश्वाधिपः सर्वविद् ॥९॥ ॥ सं० १९८१ वर्षे महा सुदि १५ शुक्रेऽलेखि ॥