________________
( २४ )
जैनस्तोत्रसन्दोहे
[कनकप्रभ
सर्वजन्तुसुगमा जिन ! पञ्च
त्रिंशदद्भुतगुणा तव वाणी । इन्दुकुन्दविमला चमराली
शोभते तव शुभोभयतश्च ॥३॥ विष्टपत्रयगरिष्ठ ! वरिष्ठं
सिंहविष्टरमधिष्ठितवांस्त्वम् । द्वादशाकंतुलितामलभासं
भाति मण्डलमिदं तव पृष्ठे ॥४॥ दुन्दुभिर्दिवि परस्तव दिव्यो
___ दध्वनीति मधुरोद्भुरबोधः । आतपत्रविततत्रितयं तु
शोभते शिरसि ते जगदीश ! ॥५॥ इत्यभिष्टुतगुणः शमसिन्धो ! .
वीतराग ! भुक्नत्रयबन्धो !। वासवाचित ! वशीकृतमुक्ति
देहि मे निजपदाव्ययभक्तिम् ॥६॥
[८] श्रीकनकप्रभमूरिसन्हब्धः (८) साधारणजिनस्तवः ।
जयति जङ्गमकल्पमहीरुहो जयति विश्वसनातनदीपको
जयति दुःखमहार्णवतारकः । जयति भूतलशीतरुचिर्जिनः ॥१॥