________________
सरिप्रणीतम्] साधारणजिनस्तधनम् (२३ ) सदा भवारातिभिदे नतेन्द्र ! सदाभवारागवशी कृतीस्त्वाम् । सदा भवाराङ्गन पापिनः स्वः सदाभवाराद्भुतहारयामे ॥८॥ सदाऽगमं ते वितसंविदुल्ल- सदागमं तेज इवाऽत्र मूर्त्तम् । सदा गमन्तं शरणं वरेण्य- सदा गमं तेन सुखी भवेयम् ॥९॥ महायमानं जन भाव भास्व- महायमानं गतिदे नमस्ते । महायमानं हरतेऽत्र भावा-- महायमानन्दपदाय कुर्वे ॥१०॥ एवमीश ! मयका बहुभावा
देव सुन्दरगुणाम्बुसमुद्र ! । संस्तुतो जिन ! पदाम्बुजसेवा
मेव मे वितनु विश्वनमस्य ! ॥११॥
[७]
साधारणाजनस्तवनम् ।
प्रातिहार्यकलितासनशोभं
त्वां स्तुवे जिनपते ! जितलोभम् । वीतराग ! विगतान्तररोगं
सूपदिष्टशिवकारणयोगम् ॥१॥ योजनक्षितिषु विस्तृतशाखो
__ भात्यशोकतरुरेष तवेश !। उल्लसत्परिमलः परितोऽयं
पञ्चवर्णकुसुमप्रकरश्च ॥२॥