SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सर्वजिनसाधारणस्तवः सरसि सरसिजौघः सारसौरभ्यगेहं मलिनमलिनमुच्चैर्वञ्चयेत् किं कदाचित् ? ॥५॥ यमनियमनिकेते किं त्वयि स्फूर्जमाने सूरिप्रणीतम् ] मनसि मनसिजस्य स्फूर्त्तिरुत्कीर्तनीया । पतति पतति सर्पद्दर्पसर्पान्तकाले विषमविषमहिम्नां कः प्रकाशो जिनेश ! ॥ ६॥ हरसि हरसिताभिः सूत्रितज्ञानलक्ष्म्या नयन ! नयनभाभिस्त्रातरज्ञानपङ्कम् । ( २१ ) तमसि तमसितिम्ना लोकमाक्रान्तमिन्दुः करनिकरनिपातैः किं न शुभ्रीकरोति ? || ७ | -नवरनवरवा सौकस्य दोषान्धकारे दनवदनवलक्षा देशनोर्वी मुदे स्यात् । विधुतविधुतनुत्वा शारदी पौर्णमासी वनपवनपरीता मोदयत्येव देव ! ॥ ८ ॥ नयविनय विवेका (या) स्त्वद्वचः पावितानां न मदनमदमोहम्ल निमायान्ति नेतः ! | तिरयति रयमुच्चैर्लोचना लोकलक्ष्म्या रविकरविकलानामन्धकारप्रचारः ।। ९ ।। भवति भवतितीर्षुर्नाथ ! नाभव्यजन्तु - तततततवाचाऽप्यत्र कस्तेऽपराधः ? | धुरि मधुरिमभाजां नूत्नचूताङ्कुरास्ते कमपि कमपि वाणीसौरभं लम्भयन्ति ॥ १० ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy