________________
(२०)
जैनस्तोत्रसन्दोहे
[श्रीनरचन्द्र
श्रीनरचन्द्रसूरिप्रणीतः सर्व जिनसाधारणस्तवः ।
सरति सरति चेतः स्तोतुमेतन्मदीयं
महित महितवृन्दैरप्यदस्त्वचरित्रम् । परम ! परमबुद्धिस्फूर्तयो मादृशाः किं
विदुरविदुरधुर्यास्तात ? तत्ते स्वरूपम् ॥१॥ तदपि तदपिधायाज्ञानमुजागरूका
मततमततमासी भक्तिरेतां गिरं मे । खरशिखरिशिखाङ्के भूभृतः पादपाली
जलदजलदरिद्रे नैति नेतः ! प्ररोहम् ॥ २॥ हृदयहृदयमित्वा लोक्यते नाम कामं
विशदविशदतापक्लान्तचित्तैस्तथापि । तनुमतनुमहिम्नी तावकां किन्तु हित्वा
विधुरविधुरभावं नैव नेतस्तनोति ॥ ३ ॥ भवविभवविलासास्ते जगन्नाथ ! न त्वा
___मनवमनव जाग्रत्यागमुत्तापयन्ति । वनमवनमदम्भोवाहसंवाहितश्री
महिममहिमभानो नवः किं दहन्ति ? ॥४॥ सहम ! सहपरस्त्रीनेत्रपीयूषसत्रं
समव समवगाढः कोऽस्ति धन्यस्त्वदन्यः ।