________________
सूरिविरचितम् ] साधारणजिनस्तोत्रम् (१९) ग्रस्तं प्रस्तसमस्तविग्रहधिया लोभेन भीमेन मां
त्रायस्वोत्तमपादनं (?) जिनपते ? पादद्वयं ते श्रितम् ॥१५॥ प्रशान्तानामीश ! प्रथममविधेयेषु करुणां
वितन्वानेनाहं नियतमवधूतोऽस्मि भवता । इदानीं त्वापन्नं जननमरणादिव्यतिकरैः
प्रसीद स्वामिन् ! मां निजपदविधेयं कुरु चिरात् ॥१६॥ त्वदीयायां स्वामिन् ! जिनवृषभ ! वाचि स्थिररुचे- ...
र्जनस्य व्यामोहो न खलु भवति कापि विषये । मयि त्वेकान्तेन स्थगितहृदये मोहतमसा
महामायाजालैनिबिडमिव नद्धो विजयते ॥ १७ ॥ प्रसीद कुरु कारुण्यमनुकम्पा विधेहि नः ।
येन शाम्यन्ति दुर्वाराः सद्य एव महारुजः ॥ १८ ॥ ये दारिद्रयोपहतवपुषो ये च दौर्भाग्यदग्धा
ये वा शत्रुव्यसनविकला ये च दौस्थ्योपतताः । ये वा केचिजिनवर ! भृशं पीडिता दुःखभारै
स्तेषामेकस्त्वमसि शरणं तर्षितानामिवाम्भः ॥ १९ ॥ नान्यं स्तौमि न चार्चयामि न मनस्यारोपयाम्यर्थये
न स्वप्नेऽपि जिन ! त्वदधिकमलद्वन्द्वादृतेऽन्वेमि वा। नाथैतन्मम कुर्वतः प्रतिदिनं यत् किञ्चिदप्यरित तद् यनास्त्येव हि नारित तत्तदपि च त्यक्ष्यामि नैतद् व्रतम् ॥२०॥