________________
सूरिविरचितम् ] साधारणजिनस्तोत्रम्
एकस्मिन्नपि नाथ ! तेषु विहिते कुत्रापि जन्मान्तरे प्रोन्मध्नन्ति कदाचिदेव नियतं नैवंविधा व्याधयः ॥ ४ ॥ एतानि नाथ ! चटुलानि दुराशयानि लुब्धानि रम्यविषयोपनिबन्धनानि ।
दुर्दान्तवाजिसदृशान्यविधेयभावाद्
श्यानि मे कुरु सदैव षडिन्द्रियाणि ॥ ५ ॥ मूढो विवेक विकलो विधृतोर्ध्वबाहु -
त्वं शृणोषि यदहं जिन ! रारटीमि । मां तत्र कर्मणि नियोजय येन देव !
संसारचक्रगहनं न पुनर्विशामि ॥ ६ ॥
सर्वापदां निलयमध्रुवमस्वतन्त्र - मासन्नपातमविवेकमसारमज्ञम् ।
यावच्छरीरकमिदं न विपद्यते मे
तावन्नियोजय विभो ! कुशलक्रियासु ॥ ७ ॥
अज्ञस्य मे हृतविवेकमहाधनस्य
चौरैः प्रभो ! बलिभिरिन्द्रियनामधेयैः । संसारकूपकुहरे विनिपातितस्य
देवेश ! देहि कृपणस्य करावलम्बम् ॥ ८ ॥ दीने भोजनतत्परेऽथ कृपणे निद्राभिभूतेऽलसे
( १७ )
व्याधिव्याकुलिते कुभूषणरते धृष्टे च दुष्टे शठे । मिथ्यावादिनि कामकोपसहिते क्रूरे कुरूपे जडे
कारुण्यं मयि नाथ ! नाऽथ कुरुषे भावैकयुक्ते सदा ||९||