________________
जैनस्तोत्रसन्दोहे [४ोहरिभद्रसोमप्रभाचार्यमभावयन
पुसां तमः पङ्कमपाकरोति । विलोक्यमाने तदपि प्रभाते तवानने नश्यति वतिराग ! ॥ ९ ॥
[४] श्रीहरिभद्रसूरिविरचितं
साधारणजिनस्तोत्रम् । त्वत्सेवानिरतांस्त्वदर्पितदृशस्त्वत्सङ्कथासु स्थितान्
त्वद्भक्तांस्त्वदनन्यसक्तमनसस्त्वत्तो न चान्यार्थिनः । देवास्मांश्च रुजादिभिः परिगतानालोक्य नोपेक्षितुं
युक्तं ते पशवो यतो जिनपते ! सर्वेऽनुकम्प्यास्तव ॥१॥ त्वद्रूपैकनिरूपणप्रणयिताबन्धो दृशि त्वद्गुण__ प्रामाकर्णनरागिता करयुगे त्वत्कीर्तनं वाऽपि नः । त्वत्पादार्चनचातुरी करयुगे त्वत्कीर्तनं वाऽपि नः
कुत्रापि त्वदुपासनव्यसनिता मा नाथ ! विश्राम्यतु ॥२॥ सर्वज्ञोऽसि विमर्शकोऽसि विदिताशेषाशयोऽसि प्रमुः
सर्वस्यापि दयान्चितोऽसि भगवंस्तेनेह पूत्कुर्महे । अस्मान्नाथ ! हठात् त्वदेकमनसो भक्ताननाथानिव
प्रोन्मथ्नन्त्यधिकाधिकं मुनिपते ! पश्याऽऽधयो व्याधयः॥३॥ स्वामिन् ! न प्रणतोऽसि न स्तुतिपकं नीतोऽसि नासि स्मृतो
न ध्यातोऽसि भवत्वनेन भगवन् ! स्वमेऽपि नाभ्यर्थितः ।