________________
सूरिप्रणीतम् ] श्रीसाधारणस्तोत्रम् . पुसां स एव सपदि त्रिदिवापवर्ग
लक्ष्मीवशीकरणकौशलमाविभर्ति ॥ ३ ॥ भासादयत्युदयमम्बुजबन्धुबिम्बे
र्सवज्ञ ! ये परिहतापरशेषकृत्याः । लोकयन्ति विकसन्नयनास्तदास्यं
दास्यं सुरासुरनराः प्रथयन्ति तेषाम् ॥ ४ ॥ यस्तावकं विकचपङ्करहाभिराम
मालोकते वदनमीश ! निशाविरामे । आलोकते स्वसमवाप्तसमीहितार्थः
कस्याप्यसौ न मुखमर्थितयाऽपरस्य ॥ ५ ॥ यः पादपप्रमुदयाचलचुम्बिबिम्बे
चण्डद्युतौ जिन ! नमस्यति तावकीनम् । तस्यास्तिकं भजति कामदुधा करेऽस्य
चिन्तामणिर्वसति समनि कल्पवृक्षः ॥ ६ ॥ त्वत्पादपङ्कजनखांशुपयःप्रवाहे
__ मन्जन्ति ये त्रिभुवनैकविभो ! विभाते । निःशेषपातकमलोपगमोज्ज्वलास्ते
मुक्त्यङ्गनाहृदयवल्लभतां व्रजन्ति ॥ ७ ॥ सुप्तोत्थितः प्रथममेव जिन ! त्वदीय
मुदीक्षते वदनदर्पणमुज्ज्वलं यः। तस्यान्वहं निखिलमङ्गलभाजनस्य
स्याञ्चिन्तितार्थघटना सुलभा जनस्य ॥८॥