SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ( ८ ) जेमस्तोत्रसन्दोहे [ श्रीहेमचन्द्राचार्य महाधर्मो महाशर्मा महात्मज्ञो महाशयः । महामोक्षो महासौख्यो महानन्दो महोदयः ॥ १२ ॥ महाभवाब्धिसन्तारी महामोहारिसूदनः । महायोगीश्वराराध्यो महामुक्तिपदेश्वरः ॥ १३ ॥ इति श्रीमहनामसहस्रसमुच्चये षष्टशतप्रकाशः ॥ ६ ॥ आनन्दो नन्दनो नन्दो वन्द्यो नन्योऽभिन्दनः । कामहा कामदः काम्यः कामधेनुररिञ्जयः ॥ १ ॥ मनः क्लेशापहः साधुरुत्तमोऽघहरो हरः । असख्येयः प्रमेयात्मा शमात्मा प्रशमाकरः ॥ २ ॥ सर्वयोगीश्वरोऽचिन्त्यः श्रुतात्मा विष्टरश्रवाः । दान्तात्मा दमतीर्थेशो योगात्मा योगसाधकः ॥ ३ ॥ प्रमाणपरधिर्दक्षो दक्षिणो ऽध्वर्युरध्वरः । प्रक्षीणबन्धः कर्मारिः क्षेमकृत् क्षेमशासनः ॥ ४॥ क्षेमी क्षेमङ्करः क्षेप्यः क्षेमधर्मा क्षमापतिः । अमाझो ज्ञानिविज्ञेयो ज्ञानिगम्यो जिनोत्तमः ॥ ५ ॥ जिनेन्दुर्जनितानन्दो मुनीन्दुदुन्दुभिस्वनः । मुनीन्द्रवन्द्यो योगीन्द्रो यतीन्द्रो यतिनायकः ॥ ६ ॥ असंस्कृतः सुसंस्कारः प्राकृतो वै कृतान्तवित् । अन्तकृत् कान्तगुः कान्तश्चिन्तामणिरभीष्टदः ॥ ७ ॥ १. सर्वयोगीश्वरश्चिन्त्यः । २ कामारिः । ३ क्षय्य ।
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy