SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ चिरचितः ] भर्हन्नामसहस्रसमुच्चयः अजितो जितकामारिरमितोऽमतिशासनः । जितक्रोधो जितामित्रो जितक्लेशो जितान्तकः ॥ ८ ॥ सत्याम्ना सत्यविज्ञानः सत्यवाक् सत्यशासनः । सत्याशीः सत्यसन्धानः सत्यः सत्यपरायणः ॥ ९ ॥ सदायोगः सदाभोगः सदातृप्तः सदाशिवः । सदागतिः सदासौख्यः सदाविद्यः सदोदयः ॥ १० ॥ सुघोषः सुमुखः सौम्यः सुखद : सुहितः सुहृत् । सुगुप्तो गुप्तिद् गोप्ता गुप्ताक्षो गुप्तमानसः ॥ ११ ॥ इति श्रीमईनामसखसमुच्चये संप्तमशतप्रकाशः ॥ ७ ॥ (९) बृहद बृहस्पतिर्वाग्मी वाचस्पतिरुदारधीः । मनीषी धिषणो धीमान् शेमुषीशो गिरांपतिः ॥ १ ॥ नैकरूपो नयोतुङ्गो नैकात्मा नैकधर्मकृत् । अविज्ञेयः प्रतयत्मा कृतज्ञः कृतलक्षणः ॥ २ ॥ "ज्ञानगर्भो दयागर्भो रत्नगर्भः प्रभास्वरः । पद्मगर्भो जगद्गर्भो हेमगर्भः सुदर्शनः ॥ ३ ॥ लक्ष्मीशः सदयोsध्यक्षो दृढयोनिर्नयीशिता । मनोहरो मनोज्ञोऽह धीरो गम्भीरशासनः ॥ ४ ॥ धर्मयूपो दयायोगो धर्मनेमिर्मुनीश्वरः । धर्मचक्रायुधो देवः कर्महा धर्मघोषणः ॥ ५ ॥ स्थेयान् स्थवीयान् नेदीयान् दवीयान् दूरदर्शनः । सुस्थितः स्वास्थ्यभाक् सुस्थो नीरजस्को गतस्पृहः ॥ ६ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy