________________
जैनस्तोत्रसन्दोहे [श्रीहेमचन्द्राचार्यसुधर्मा धर्मधीधर्मो धर्मात्मा धर्मदेशकः । धर्मचक्री दयाधर्मः शुद्धधर्मो वृषध्वजः ॥१॥ वृषकेतुर्वृषाधीशो वृषाङ्कश्च वृषोद्भवः । हिरण्यनाभिर्भूतात्मा भूतभृद् भूतभावनः ॥ २ ॥ प्रभवो विभवो भास्वान् मुक्तः शक्तोऽक्षयोऽक्षतः । कूटस्थ: स्थाणुरक्षोभ्यः शास्ता नेताऽचलस्थितिः ॥ ३ ॥ अग्रणीामणीLण्यो गण्यगण्यो गणाग्रणीः । गणाधिपो गणाधीशो गणज्येष्ठो गणार्चितः ॥ ४ ॥ गुणाकरो गुणाम्भोधिर्गुणज्ञो गुणवान् गुणी । गुणादरो गुणोच्छेदी सुगुणोऽगुणवर्जितः ॥ ५ ॥ शरण्यः पुण्यवाक् पूतो वरेण्यः पुण्यगीर्गुणः । अगण्यपुण्यधीः पुण्यः पुण्यकृत् पुण्यशासनः ॥ ६ ॥ अतीन्द्रोऽतीन्द्रियोऽधीन्द्रो महेन्द्रोऽतीन्द्रियार्थदृक् । अतीन्द्रियो महेन्द्रार्यो महेन्द्रमहितो महान् ॥ ७ ॥ उद्भवः कारणं कर्ता पारगो भवतारकः । अग्राह्यो गहनं गुह्यः परर्द्धिः परमेश्वरः ॥ ८ ॥ अनन्तर्द्धिरमेयार्द्धिरचिन्त्यार्द्धः समग्रधीः ।। प्राप्यः प्राग यूहरोऽत्यनः प्रत्यग्रोऽग्रोऽग्रिमोऽग्रजः ।। ९ ॥ प्राणकः प्रणवः प्राणः प्राणदः प्राणितेश्वरः । प्रधानमात्मा प्रकृतिः परमः परमोदयः ॥ १० ॥ ।। इति श्रीमहनामसहससमुच्चये पश्चमशतप्रकाशः॥ ५॥