________________
प्रस्तावना |
( १०५ )
यथामति कृते कारितेऽपि संशोधने प्रत्यन्तराभावात् प्रमाददोषेण च समुद्भूता लोचनगोचरीभवेयुर्मनुष्यस्वमाव सुलभाः यत्र कुत्रचित् स्खलनाः ता विशदीकुर्वन्तु सुहृदयाः सहृदयाः, विमलीकुर्वन्तु चेतः स्वकीयं स्तुतिस्तोत्रादीनाममीषां पठनपाठनेन, शकलीकुर्वन्तु नैकभवोपचितं विमलकेवलालोकावरोधकारकं दुष्कर्म महीधरं प्रवर्द्धमाननिर्मलभावनानिशितकुलिशेन भव्यात्मनः, सफलीकुर्वन्तु परिश्रममिमं मामकीनमिति प्रार्थयति निबद्धाञ्जलिर्विदुषामनुचरः दक्षिणविहारि श्रीमदमर विजयमुनिचरणारविन्दमधुकरः
चतुरविजयो मुनिः ।
शिनोर
ता. ३-११-३२