________________
(१०६)
[२]
द्वादशारनयचक्रम् । को नाम नो वेत्ति साहित्यदत्तदृष्टिः श्रीमल्लवादिसरिवर्याणांनाम ?। एमिरेव महानुभावैः प्रणीतं जैनसाहित्यचूडामणिनिभं नयगमभङ्गसङ्गमातिदुर्गम ग्रन्थरत्नमिदं श्रीसिंहगणिक्षमाश्रमणप्रणीतविवरणोपेतं विपश्चिताममन्दानन्दसन्दोहदायकं प्रयत्नपूर्वकं संशोध्य प्रकटीचिकीर्षामो वयं विभागचतुष्टये।
भविष्यति प्रतिविभागस्य वेतनं रूप्यकाणां सप्तकम् । अधैव ग्राहकीभूय लेखनीयानि स्वनामानि जिघृक्षुभिः ।
[३]
अनेकार्थ साहित्यसङ्ग्रहः । ग्रन्थेऽत्र गूर्जरेश्वरकुमारपालप्रतिबोधककलिकालसर्वज्ञश्रीहेमचन्द्राचार्यशिष्यश्रीवर्धमानगणेः, कुमारपालप्रतिबोधादिप्रणेतुः श्रीसोमप्रभाचार्यस्य, विद्वद्वर्गचूडामणेरुदयधर्मगणिनः श्रीहीरविजयसूरिपरीक्षितबुद्धेः श्रीमानसागरस्य च मूर्तिमान् प्रतिभाकलाप इव विपश्चिचित्तालादजनकं विविधबोधविधायि वैदुग्ध्यबन्धुरं शतार्थकाव्यचतुष्टयं विवरणोपेतं समहीतमस्ति । किमत्र विशेषणितेन ? यः किलाकरिष्यत् नयनमाप्तिसाफल्यमेतनिरीक्षणेन स एवाज्ञास्यद् रसास्वादमस्य । अस्माभिर्विहितास्ति मुद्रणाऱ्या पुस्तिकास्य । यथासाधनं नेष्यामः पाकव्यम् ।।