________________
प्रस्तावना ।
( ९१ )
समेतानां श्रीनयविजयगुरुवर्याणां बभूव परिचय इति स्पष्टतर
उल्लेखः ।
(१) प्रतिदिनं भक्तामरस्तव श्रवणमन्तरेण भोजनं न ग्राह्यमिति प्रतिपन्नस्तत्रभवतो मात्रा गुरुसकाशे नियमः । गते च काले कियत्यपि प्रवर्षितुं लग्नो मुशलधारयाविश्रान्तं वारिदः, नाशक्नोदुपाश्रयं गत्वोपगुरु भक्तामरस्तवं श्रोतुम्, न च पचति किमपि सा । पृष्टं कारणं क्षुधार्तेन श्रीमता । यथास्थितं प्रोक्तवती सा । प्रत्यहं मात्रा समं गच्छतोपाश्रयं श्रावं श्रावमवधारितः श्रीभक्तामरस्तवोsस्खलितं श्रावितः पूज्यपादेन । ततः पूर्णे प्रत्याख्याने प्रहृष्टा माता, विहिता भुक्ता च रसवती ।
(२) निवसता काश्यां द्वादश वत्सरान् समधीतान्यशेषाणि न्यायशास्त्राणि, स्थितश्चैकः सप्तसहस्रश्लोकप्रमाणो ग्रन्थः, तं तु प्रार्थितोऽपि नाध्यापयति स्वमहत्वक्षतिभीत्या गुरुः, लब्धः प्रसन्नीकृत्य गुरुं विलोकनाय । एकस्यामेव निशायां कण्ठीकृत्य चतुः सहस्री श्लोकानां श्रीमता, त्रिसहस्त्री बिनयेविजयोपाध्यायैश्व प्रातः प्रत्यर्पितो गुरवे ग्रन्थः ।
इत्येताभ्यां प्रघोषाभ्यां ध्वन्यतेऽत्रभवतोऽसाधारणावधारणशक्तिः ।
१ द्वादशाब्दीं यावदध्युवाष श्रीविनयविजयोपाध्यायेन समं विद्याध्ययनाय वाणारसीं श्रीमानिति श्रूयते प्रघोषः किन्तु निम्नलिखितग्रन्थरचनादिकालावलोकनात् न क्वापि द्वादशाब्द्या अन्तरः समवतरति दृष्टिप थम् । तथाहि
सं. १६८७ श्रीविनयविजयेन स्वयं लिखिता यन्त्रराजप्रतिः ।