________________
(९०)
जैनस्तोत्रसन्दोहे ।
NAAR
(४२) न्यायविशारद-न्यायाचार्य-महोपाध्याय
श्रीयशोविजयः। महात्मनोऽस्य जन्मसमय-पितृ-मातृ-कुल-जन्मस्थलादिविषये प्रयततामपि विदुषामनेकेषामद्यावधि न कोऽपि समजायत निर्णयः । ___ आनन्दघनपद्यरत्नावल्या उपोद्घाते चतुर्थ गूर्जरसाहित्यपरिषन्निबन्धरूप 'न्यायविशारदजीवने ' अन्यत्रापि च विक्रमसंवत् १६७०-८० मध्ये जन्मसमयः कल्पितः, तां चा कल्पनामपाकरोति श्रीलोकनालिकाबालबोधप्रान्तस्थनिम्नलिखितपुष्पिकावलोकनात् प्रतिमाशतकप्रस्तावनायां पं. श्रीप्रतापविजयो गणिः_ 'स्वार्थाय लोकनालेर्जशविजयाह्वः प्रतनुधिषणः॥४॥ इति लोकनालिबालावबोध संवत् १७०७ वर्षे कार्तिक वदि १ भौमे........ नक्षत्रे लिखाइतम् । १६६५ वर्षे ज्येष्ठ सुदि १३ सोमे अनुराधा नक्षत्रे कृतः । "
निकृन्तति चैनामपि मोहनलाल दलीचंद देसाई अधुनैव समुपलब्घरासकानुसारेण निरूप्य वैक्रमीय १६८८ तमे वर्षे दीक्षां वणिक्कुलं च, जन्मतः सप्तमेऽष्टमे वा हायने कक्षीकृता श्रीमता दीक्षेति निर्विवादमेव ।
लोकनालिकाबालावबोधशब्दरचनां विलोक्यानुमीयते कैश्चित् श्रीमतो गूर्जर ( सौराष्ट्र ) भूर्जन्मस्थलमिति, किन्तूक्तरासके तु कनोडू ( कम्होडू) ग्रामे जन्म, पत्तनासन्नवर्तिकुणगिरिग्रामतः