SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। (८९) इति नुतः विजयप्रभो भक्तितस्तर्कयुक्त्या मया गच्छनेता। श्रीयशोविजयसम्पत्करः कृतधियामस्तु विनापहः शत्रुजेता ।। ॥ श्रीविजय० ७ ॥ (४१) शुभसुन्दरगणिः । मन्त्रतन्त्रभेषजादिविविधविद्याविशारदोऽसौ मुनिप्रवरः कदा कं महीमण्डलं मण्डयामासेति जिज्ञासायां पर्यालोचने प्रवृत्ते अत्रैव पृ. ३५३ मुद्रित देलउलामण्डनयुगादिजिनस्तवान्तेइत्थं भेषजयन्त्रतन्त्रकलितैः सन्मन्त्ररत्नैश्चितां कृत्वा श्रीमुनिसुन्दरस्तुत ! नुतिं देलुल्लनेतस्तव । लक्ष्मीसागरनामधेय ! करुणाम्भोधे ! युगादिप्रभो ! दुःस्थोऽहं शुभसुन्दरांहियुगलीसेवासुखं प्रार्थये ॥२॥ इत्येतस्मिन् पद्ये मुनिसुन्दरेमूरि-लक्ष्मीसागरसूरिनामधेयावलोकनात् सं. १४३६ तः सं. १४१७ पर्यन्तः तत्समानकालीनएवास्य सत्तासमयः । - कृतिसन्दर्भ-शिष्यादिपरिचितिं प्रदातुकामोऽपि व्यनज्मि साधनाभावात् स्वकीयामशक्तिमिह । १ श्यामसरस्वतीतिबिरुदभृतः सूरिवर्यस्यास्य विक्रम संवत् १३३६ वर्षे जन्म, संवत् १४४३ वर्षे व्रतम् , सं. १४६६ वर्षे वाचकपदम् , सं. १४७८ वर्षे सूरिपदम् , सं. १५०२वर्षे स्वर्गगमनम् । २ संवत् १४६४ वर्षे जन्म, सं. १४७० वर्षे दीक्षा, सं. १४९६ वर्षे पन्यासपदम् , सं. १५०२ वर्षे वाचकपदम् , सं. १५०८ वर्षे सूरिपदम्, सं. १५१७ वर्षे गच्छनायकत्वमस्य ।
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy