SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ (८८) जैनस्तोत्र सन्दोहे | नेतरा श्रीमतः कृतिः प्रयाति दृष्टिगोचरम्, तथापि न्या. न्या. श्रीमद् यशोविजयमहोपाध्याययेन विनिर्मितः षट्दर्शनमान्यतागर्भितः स्वाध्यायः प्रथयति श्रीमतः प्रतिभाप्रकर्षं प्रतिष्ठां च । स चैवम्श्रीविजयप्रभसूरिस्वाध्यायः । ( कडखो ) श्रीविजयदेवसूरीशपट्टाम्बरे जयति विजयप्रभः सूरिरर्कः । जैनवैशिष्टयसिद्धिसङ्गादिना निजगृहे योगसमयाय तर्कः ज्ञानमेकं भवेद् विश्वकृतकेवलं दृष्टबाधा तु कर्तरि समाना । इति कर्तृलोकोत्तरे सङ्गते सङ्गता यस्य धीः सावधाना ॥ ॥ श्रीविजय ० १ ॥ ॥ श्रीविजय० २ ॥ ये किलोपोहशक्तिं सुगतसूनवो जातिशक्तिं च मीमांसका ये । सङ्गिरन्ते गिरं ते यदीयं नयद्वैतपूतां प्रसह्य सहन्ते || श्रीविजय ० ३ ॥ कारणं प्रकृतिरङ्गीकृतं कापिलैः कापि नैवात्मनः कापि शक्तिः । बन्धमोक्षव्यवस्था तदा दुर्घटेत्यत्र जागर्ति यत्प्रौढशक्तिः ॥ ॥ श्रीविजय० ४ ॥ शाब्दिकाः स्फोटसंसाधने तत्परा ब्रह्मसिद्धौ च वेदान्तनिष्ठाः । सम्मति प्रोक्तसंग्रह रहस्यान्तरे यस्य वाचा जितास्ते निविष्टाः ॥ ॥ श्रीविजय ० ५ ॥ ध्रौव्यमुत्पत्तिविध्वंसकिर्मीरितं द्रव्य - पर्याय- परिणतिविशुद्धम् । विस्रसायोगसङ्घातभेदाहितं स्वसमयस्थापितं येन बुद्धम् । ॥ श्रीविजय ० ६ ॥
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy