SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। (८७) (४०) श्रीविजयप्रभसूरिः। सुगृहीतनामधेयश्रीविजयहीरसूरिपट्टपद्माकरप्रबोधनैकतरणिश्रीविजयसेनमूरि-श्रीविजयदेवसूरि-श्रीविजयसिंहसूरिपट्टविभूषकः सूरिवर्योऽसौ । जैनगूर्जरकाव्यसञ्चयान्तर्मुद्रित-विमलविजयविरचितश्रीविजयप्रभसूरिनिर्वाणसज्झायाऽनुसारेण विक्रमतः सं. १६७७ वर्षे माघ शुक्ल ११ दिने कच्छदेशे मनोहरपुरे ओशवंशभूपामणिश्रेष्ठिवर्यशिवगणसधर्मचारिणीभाणीकुक्षौ श्रीमतो जन्म । नववर्षदेशीयः सं. १६८६ वर्षे श्री विजयदेवसूरिपार्श्वे जग्राह दीक्षाम् । वीरविजय इति पप्रथे नाम । सं. १७०१ वर्षे पं. पदम् । सं. १७१० वर्षे वैशाखशुक्लदशम्यां गान्धारनगरे सूरिपदम् , ततो 'विजयप्रभमूरि' रिति प्रसिद्धिः । वरिवर्ति सं. १७१३ वर्षे पूज्यपादप्रतिष्ठिता स्तम्भतीर्थे माणेकचोकस्थश्रीपार्श्वनाथजिनालये श्रीविजयदेवसूरेः पादुका, यदर्थ विलोक्यतां जैनधातुप्रतिमालेखसङ्ग्रहस्य द्वितीयविभागे १७० तमे पृष्ठे मुद्रितो ४८ सङ्ख्याको लेखः । इहैव पृ. ३५ मुद्रितश्रीदेवपत्तननिवासिजिनस्तवनातिरिक्ता १ श्रीमद्विजयानन्दसूरिविनिर्मिते जैनतत्वादर्शग्रन्थे सं. १६७५ वर्षे जन्म, सं. १६८९ वर्षे दीक्षा सं. १७०१ वर्षे पंडितपदम्, सं. १७१० वर्षे उपाध्यायपदम्, सं. १७१३ भट्टारकपदम् । सं. १७४९ वर्षे स्वर्गमनं दर्शितमस्ति। 'जैनगूर्जरकविओ' द्वितीयविभागे पट्टावन्यन्तरानुसारेण 'कच्छदेशे वराही ग्रामे जन्म, सं. १७४९ वर्षे ज्येष्ठ सुदि १२ ऊना ग्रामे स्वर्गवासश्च प्रादर्शि ।
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy