________________
प्रस्तावना।
(३७) जिनभद्रमूरिः। खरतरगच्छालङ्कारश्रीजिनराजसूरेः पट्टधरोऽयं सूरिः। सूरिवर्यस्यास्य सं १४५० वर्षे जन्म, सं. १४६१ वर्षे दीक्षा, सं. १४७५ वर्षे सूरिपदम् सं. १५१४ (५) वर्षे च स्वर्गमनं समजनि । अनेन सम्भवजिनालयप्रतिष्ठायाः प्रागणहिल्लपाटकपुरादिषु विधिधर्मपक्ष( खरतरगच्छ ) श्राद्धसङ्घन ज्ञानरत्नकोशा अकार्यन्त । सागरचन्द्रसूरिय॑न्तरदर्श्यमानं जिनराजसूरतमालिन्यं विशङ्क्य पश्चात्तं समुदायात् पृथक्कृत्य तत्स्थानेऽमुं-जिनभद्रसूरिं सं. १४७५ वर्षे प्रतिष्ठितवान् । अनेन सूरिणा सूरिपदानन्तरं यावजीवं सं. १५१५ पर्यन्तं प्रतिष्ठितानि प्रभूतानि जिनबिम्बानि, लेखितानि च पुस्तकानि यत्र तत्र प्रेक्षणपथपान्थीभवन्ति ।
सं. १४७६ वर्षे कमलसंयमेनाऽस्य पार्श्वे दीक्षाऽग्राहि । सं. १५४४ वर्षे जेशलमेरुदुर्गे सर्वार्थसिद्धिसंज्ञकोत्तराध्ययनसूत्रवृत्तिश्च विनिर्ममे।
सं. १४८४ वर्षे पत्तनस्थमेनं प्रति जयसागरोपाध्यायः सिन्धुदेशान्तर्गतमल्लिकावाहणपुरात् विद्वत्तापूर्णी विज्ञप्तित्रिवेणी प्रहितवान् । सं. १४९५ वर्षे जयसागरोपाध्यायविहिता सन्देहदोलावलि. वृत्तिश्चैतेन व्यशोधि । . १ खरतरगच्छपट्टावल्यादौ जिनराजसूरिपार्श्वे दीक्षा, विद्याध्ययनं तु वाचकशीलचन्द्रपाऽनेन व्यायीत्युल्लेखो दृश्यते, परमपवर्गनाममालान्ते
श्रीजिनवल्लभजिनदत्तसूरिसेवी जिनप्रियविनेयः ।
अपवर्गनाममालामकरोजिनभद्रसूरिरिमाम् ॥” इत्युल्लेखदर्शनादस्य गुरोः 'जिनप्रिय' इति ध्वन्यते नाम ।