SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ (८२) जैनस्तोत्रसन्दोहे शान्तात्मानुचरं चिरस्य विनिजग्राहेन्द्रियाणां गणं यो विज्ञातसमस्तवस्तुरभवत् तुल्यश्च हेमाश्मनोः ॥८॥ तदीयपढेऽजनि वीरमरिर्यन्मानसे निर्मलदर्पणाभे । निरूपयामास सरस्वती सा त्रैविद्यविद्यामयमात्मरूपम् ॥९॥ सदाभ्यासावेशप्रथितपृथुमन्थानमथना दवाप्तं तर्काब्धेर्विबुधपतिसिद्धेशमहितम् । यदीयं वाग्ब्रह्मामतमकृत दर्पज्वरभर__प्रशान्ति निःशेषक्षितिवलयवादीन्द्रमनसाम् ॥१०॥ तस्मादभूत् संयमराज्यनेता मुनीश्वरः श्रीजिनदेवमूरिः। यो धर्ममारोप्य गुणे विशुद्ध्यानेषुणा मोहरिपुं बिभेद ॥११॥ आद्यनामक्रमेणैवं प्रसर्पति गुरुक्रमे । पुनः श्रीजिनदेवाख्या बभूवुर्वरसूरयः ॥ १२ ॥ येषां पादारविन्दानरुणनरवशिखारागभूयोऽभिरज्य लक्ष्मीलीलानिवासान् विमलगुणभृतो भेजिरे राजहंसाः । आकृष्टानेकलोकभ्रमरकृतनमस्कारझङ्काररम्यो । येषामद्यापि लोके स्फुरति परिमलोऽसौ यशोनामधेयः ॥१३॥ तेषां विनयविनयी बहु भावदेव सूरिः प्रसन्नजिनदेवगुरुप्रसादात् । श्रीपत्तनाख्यनगरे रविविश्व ( १३१२ ) वर्षे पार्श्वप्रमोश्चरितरत्नमिदं ततान ॥ १४ ॥ अतः सुस्पष्टमेवास्य चतुर्दशशताब्दीमध्यकालीनः सत्तासमयः । कृतयोऽस्य--- पार्श्वनाथचरित्रम्, कालिकाचार्यकथा, यतिदिनचर्या (१) च ।
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy