SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना । ( ३६ ) श्रीभावदेवसूरिः । श्रीकालिकाचार्यकुलतिलकः सूरिवर्योऽसौ परिचाययति स्वं श्रीपार्श्वनाथचरित्रप्रशस्त्या स्वयमेव, तथाहि आसीत् स्वामिसुधर्म सन्ततिभवो देवेन्द्रवन्यक्रमः श्रीमान् कालिकसूरिरद्भुतगुणग्रामाभिरामः पुरा । जीयादेष तदन्वये जिनपतिप्रासादतुङ्गाचलभ्राजिष्णुर्मुनिरत्नगौरवनिधिः पण्डिल गच्छाम्बुधिः || ४॥ तस्मिंश्चान्द्रकुलोद्भवः कुवलयोद्बोधैकबन्धुर्यशो ज्योत्स्नापूरितविष्टपो विधुरिव श्रीभावदेवो गुरुः । यस्याख्यानसमानमेष बहुशो व्याचक्षमाणोऽधुना गच्छेऽगच्छदतुच्छगूर्जरभुवि प्रष्ठां प्रतिष्ठामिमाम् ॥ ५ ॥ मनसि धनविवेकस्नेहसंसेकदीप्तो द्युतिमतनुत यस्य ज्ञानरूपः प्रदीपः । असमतमतमांसि ध्वंसयन्नञ्जसासौ न खलु मलिनिमानं किन्तु कुत्रापि च ॥ ६ ॥ श्रीमांस्ततो विजयसिंहगुरुर्मुनीन्द्रमुक्तावलीविमलनायकतां वितेने । ज्योतिः सदुज्ज्वलतरं विकिरन् धरित्र्यां चित्रं न यस्तरलतां कलयाञ्चकार ॥ ७ ॥ दाक्षिण्येकनिधिर्व्यधान्न सहजे देहेऽप्यहो वाञ्छितं कारुण्यामृतवारिधिर्विनिदधे गुप्तौ स्वकीयं मनः । (८१) In
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy