________________
(७८)
जैनस्तोत्रसन्दोहे
९ समयरत्न:-लावण्यसमयगुरुः ।
इतोऽपरेऽपि स्युर्नवेति न निश्चयः । कृतयस्त्वस्य
चैत्यवन्दनभाष्यावचूरिः (नं. १०२७), कल्पान्तर्वाच्यः (ग्रं. १८००), चतुर्विशतिजिनभवोत्कीर्तनस्तवनम् (श्लो. २६) युगादिजिनस्तवनम् ( श्लो. २५), युप्मेच्छद्वनवस्तवी, अस्मच्छब्दनवस्तवी, भाष्यत्रयचूर्णिः, कल्याणकस्तवः । यतिजीतकल्पः, रत्नकोषः, औरा
१ यद्यपि दानप्रदीप प्रशस्तौ १५ तमे काव्ये विद्यानिधानजिनसुन्दरसूरिशिष्यः । श्रीसोमसुन्दरगणेन्द्रनिदेशवश्यः ।' इत्युल्लेखेन श्रीजिनसुन्दरसूरिशिष्यत्वमस्य प्रतीयते, परं स्वस्य परेषां च कृतिषु प्रायशः श्रीसोमसुन्दरसूरिशिष्यत्वव्यपदेशदर्शनान्मयापि तथैव लिखितमिह ।
२१३ मुद्रितानि जैनस्तोत्रसमुच्चये । प्रकटीभूतेयं जैनस्तोत्रसङ्कहस्य प्रथमे विभागे ।
६ 'श्री आवश्यक वृत्तितः कृता सङ्क्षिप्ता श्रीसोमसुन्दरसूरिपादैः' इत्युल्लेखः प्रान्ते ।
७ श्रीमुनिसुन्दरसूरिप्रणीतं 'जयश्रिये शाश्वतशर्महेतवे' इत्यादि स्वरुपं २४ पद्यप्रमाणं मुद्रितं जैनस्तोत्रसङ्ग्रहस्य द्वितीये विभागे (पृ. १९५-२०१), प्राकृतभाषायां विंशतिगाथात्मकं त्रुटितमुपलब्धमधुनाऽन्यत् , तस्यान्तिमा गाथा त्वेवम्-" सुद्धनवमी...वली निमि, आसो आसो अमावसि हूओ।
पुण्णमासीइ नमितित्थनाहो चुओ, कुणु सुह मंगलं सोमसूरिहिं थुओ ॥ २० ॥” इदमेव सोमसुन्दरसूरिकृतमितरद्वेति न निश्चयः ।
८ 'भूयादुज्ज्वलसोमसुन्दरयशाः श्रीसङ्घभद्रङ्करम्' इत्यान्तिमकाव्यचरणम् ।