SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। . (७७) श्रीसोमसुन्दरगुरोः शिष्येण यथाश्रुतानुसारेण । श्रीजिनमण्डनगणिना द्रयङ्कमनु (१४९२) प्रमितवत्सरे रुचिरः ॥ ७ ॥ ६ श्रीविवेकसमुद्रगणिः-- यदुल्लेख: श्रीउपदेशमालाप्रकरणावचूरिग्रान्ते "उपदेशमाला प्रकरणावचूरिः समाप्ता। लिखिता श्रीतपागच्छाधिराजसोमसुन्दरसूरिशिष्यपण्डितविवेकसमुद्रगणिशिष्याणुनाऽमर. चन्द्रेण गणिना स्वपरोपकाराय । सं. १५१८ वर्षे फाल्गुन ११ दिने बुधवारे कर्करामहाग्रामे । श्रीश्रमणसङ्घस्य श्रीरस्तु॥" __सम्यक्त्वालङ्कार-पुण्यसारकथानकविरचयिता तु जिनपतिसूरिपट्टधरजिनेश्वरसूरिशिष्यत्वादितो भिन्नः । द्वयोरपि नामसाम्यत्वात् सञ्जाता स्खलना जैनग्रन्थावल्यां, समसूचि सा ‘जेशलमीर भाण्डागारीयग्रन्थानां सूची' नाम्नि ग्रन्थे (पृ. ५३ ) " जैनग्रन्थावल्यामस्य तपागच्छीयश्रीसोमसुन्दरसूरिशिष्यता षोडशशताब्दीप्रारम्भे च सूचिता सत्ता विचारासहा प्रतिभाति" इत्यादिना पण्डितवर्यश्री लालचन्द्रेण । ७ श्री चारित्ररत्नेगणिः दानप्रदीपरचयिता आरम्भसिद्धिवार्तिकविधातुः श्रोहेमहंसगणिनो विद्यागुरुः, लघूपदेशसप्ततिकाकर्तुः श्रीसोमधर्मगणिनश्चायं गुरुः । ८ भावसुन्दरसूरिः उज्जयिन्यां निरमायि श्रीमहावीरस्तवनमनेन । विलोक्यतां 'जैनगूर्जर कविओ' प्रथमविभागस्य पृ. ३३
SR No.002613
Book TitleJainstotrasandohe Part 1
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1932
Total Pages662
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy