________________
(७६)
जैनस्तोत्रसन्दोहे
" तपागणाधीश्वरसोमसुन्दराऽन्तेवासिनो वाचकचक्रचक्रिणः । श्रसाधुराजादधिगम्य कौतुकादलेखि शिष्येण यथाश्रुतं मया ॥
17
३ रत्नहंसगणिः
जैनस्तोत्रसमुच्चये पृ. १७० मुद्रित चतुर्विंशतिजिनस्तुतिप्रान्ते तपापक्षे श्रीसोमसन्दरसूरिशिष्यपण्डितशिरोवतंस पं. श्रीरत्नहंसगणिशिष्येण लिखिता इत्युल्लेखदर्शनात् ४ विशोलराजगणिः -
यदुक्तमेतदीयशिष्यरत्नरचितवीतरागस्तोत्रपञ्जिकाप्रान्तेचञ्चचन्द्रकुलं सदोदिततपापक्षाख्यबिम्बोल्लसमार्तण्डोपमसोमसुन्दर गुरोः शिष्याग्रणीः सूरिराट् । श्रीमानस्ति विशालराजसु गुरुर्विद्यानदीसागरस्तत्पादप्रणतोऽस्म्यलं श्रतिसुखा जैनस्तुतेः पञ्जिका ॥ सह पश्ञ्चविंशदक्षरसपादषट्शतमिताऽजनिष्ट सुगमेयम् । वर्षे तिथिरविसङ्घये (१५१२) शितिपक्षे तपसि गुरुपुष्पे ॥ श्रीप्रियङ्करनृपकथा-रूपसेनचरित्र कर्तृश्रीजिनमूरमुनिगुरुश्रीसुधाभूषणमुनेः, काव्यमालासप्तमगुच्छकान्तर्मुद्रितश्रीजिनप्रभ सूरिप्रणीतसिद्धान्तस्तवावचूरिरचयितुश्चासौ गुरुः ।
""
"L
५ श्रीकुमारपालप्रबन्धप्रभृतिप्रणेता श्रीजिनमण्डनोपाध्यायः-उक्तं च
प्रबन्धो योजितः श्रीमत्कुमारनृपतेरयम् । . गद्यपद्यैर्नवैः कैश्चित् कैश्चित् प्राक्तननिर्मितैः ॥ ६ ॥
१ तपा मुनिसुन्दरसूरिशिष्यो विशालराज इत्यन्यत्र ।