________________
प्रस्तावना।
श्रीमतः श्रीमुनिमुन्दरसूर्याद्याः पञ्च शिष्या मुख्याः, यदुक्तमाचारप्रदीपप्रशस्तौ श्रीरत्नशेखरसूरिणा
"देवसुन्दरगुरोः पट्टे श्रीसोमसुन्दरगणीन्द्राः । युगवरपदवी प्राप्तास्तेषां शिष्याश्च पञ्चैते ॥ ७ ॥ मारीत्यवमनिराकृतिसहस्रनामस्मृतिप्रभृतिकृत्यैः । श्रीमुनिसुन्दरगुरवश्चिरन्तनाचार्यमहिमभृतः ।। ८ ॥ श्रीजयचन्द्रगणेन्द्रा निस्तन्द्राः सङ्घगच्छकार्येषु । श्रीभुवनसुन्दरवरा दूरविहारैर्गणोपकृतः ॥ ९॥ विषममहाविद्यातविडम्बनाब्दी तरीव वृत्तिथैः । । विदधे यज्ञाननिधि मदादिशिष्या उपाजीवन् ॥ १० ॥ एकाङ्गा अप्येकादशाङ्गिनश्च जिनसुन्दराचार्याः । निर्ग्रन्था ग्रन्थकृतः श्रीमजिनकीर्तिगुस्वश्च ॥ ११॥"
एतदतिरिक्ता अत्रभवतः शिष्यास्त्वमी१ श्रीनन्दिरत्नगणिः-उपदेशतरङ्गिणीप्रणेतुः श्रीरत्नमन्दिरग
णेर्गुरुः, यदुक्तं तत्कृतभोजप्रबन्धप्रशस्तौजातः श्रीगुरुसोमसुन्दरगुरुः श्रीमत्तपागच्छप
स्तत्पादाम्बुजषट्पदो विजयते श्रीनन्दिरत्नो गणिः। तच्छिष्योऽस्ति च रत्नमन्दिरगणिर्भोजप्रबन्धो नव
स्तेनासौ मुनिभूमिभूतशशभृत् (१५१७) संवत्सरे निर्मितः। २ साधुराजगणिः
यदाह भरटकद्वात्रिंशिकाकृत्