________________
(७४)
जैनस्तोत्रसन्दोहे
श्रीमतो विक्रम सं. १३९६ तमेऽब्दे जन्म, सं. १४०४ तमे वर्षे दीक्षा, १४२० तमे हायनेऽणहिल्लपुरपत्तने सूरिपदम् ।
तत्रभवतो विद्वच्छिरोरत्नं समजायत शिष्यरत्नपञ्चकं, तचैवम्१ ज्ञानसागरसूरिः-विमलनाथचरित्रादिविरचयिता २ कुलमण्डनमूरिः-सिद्धान्तकलापोद्धार-विचारामृतसङ्कहा
दिप्रणेता। ३ गुणरत्नमरिः-क्रियारत्नसमुच्चय-षट्दर्शनसमुच्चयवृत्ति
विरचयिता । ४ सोमसुन्दरमूरिः--योगशास्त्रोपदेशमालाधवचूरिप्रणेता ५ साधुरत्नसूरिः-यतिजीतकल्पवृत्तिकर्ता
___(३४) श्रीसोमसुन्दरमरिः। प्रल्हादनपुरे सज्जनश्रेष्ठिनो माल्हणदेव्याः कुक्षौ विक्रमसंवत् १४३० वर्षेऽस्य जन्म, सोमस्वप्नावलोकनात् ' सोम' इति प्रादायि नाम । सं. १४३७ वर्षे स्वभगिन्या समं कक्षीकृता दीक्षा । सं. १४५० वर्षे - विंशतिवर्षदेशीयो निखिलवाङ्मयपारदृश्वा प्राप्तवान् वाचकपदम् , सं. १४५७ वर्षेऽष्टादशशतसाधुपरीवारः सूरिपदं प्रपेदे। विधायोपदेशकौशलेन विविधजिनालय--जिनबिम्बप्रतिष्ठा-मुनिपदनतिष्ठापन-तीर्थसङ्घयात्राद्यनेकधर्म्यकर्माणि संवत् १४९९ वर्षे दिवं जगाम । एतदर्थे विशेषजिज्ञासुभिर्विलीकनीयं पण्डितप्रकाण्डश्रीमतिष्ठासोमप्रणीतं श्रीसोम सौभाग्यकाव्यम् ।