________________
( ७३ )
प्रस्तावना ।
(३२) मेरुनन्दनोपाध्यायः
अनेनैव विरचिते श्रीजिनोदयसूरिविवाहलाप्रान्ते - एहु सिरि जिणउदयसूरिनियसामिणो कहिउ मइ चरिउ अइमंदबुद्धि अम्ह सो दिक्खगुरु देउ सुपसन्नउ दंसणनामचारित्तसुद्धिं । एहु गुरुराय वीवाहलउ जे पढइ जे गुणइ जे सुणंति उभयलोगे वि, ते लहइ मणछियं मेरुनंदनगणि इम भणति ॥ " इत्यनेन पद्येन श्रीजिनोदयसूरिर्निरूपितः स्वयं स्वस्य दीक्षागुरुः, श्रीजिनोदयसुरेश्व सं. १३७५ वर्षे रुद्रपालश्रेष्ठिपत्नी धारलदेवीकुक्षौ प्रह्लादनपुरे जन्म, सं. १३८२ वर्षे श्रीजिनकुशलसूर्यन्तिके दीक्षा, सोमप्रभ इति नाम । सं. १४०६ वर्षे जेसलमेरुद्रङ्गे वाचनाचार्यपदम्, सं. १४१५ वर्षे स्तम्भतीर्थे तरुणप्रभसूरिभिः प्रदत्तं सूरिपदम्, 'जिनोदयसूरि' रित्यभिधानं च । सं. १४३२ वर्षे समाधिना समाससाद स्वर्गिस - म्पदम् । इत्यनाशङ्कयमनेहः, मेरुनन्दनोपाध्यायस्याप्यस्य समान एव सत्ता समयः ।
कृतयस्त्वस्य-जिनोदयसूरिविवाहलउ, अजितशान्तिस्तवनम्, सीमन्धरजिन स्तवनं ( अप ० )
( ३३ ) श्रीदेवसुन्दरसूरिः । तपागच्छीयैकोनपञ्चाशत्तमपट्टपूर्वाचलप्रभाकरः स्थावरजङ्गमविपापहारी मन्त्र तन्त्रविद्यामन्दिरं योगाभ्यासनिष्णातो जलानलव्यालादिभयध्वंसी त्रिकालनिमित्तवेत्ता महानरेन्द्रवन्द्यचरणारविन्दः सूरिवरोऽयं श्रीसोमतिलकस्तूरिशिष्यः ।