________________
प्रस्तावना। mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmer urwwwmmm
(७९) धनारासः । नेमिनाथनवरसफागः, उपदेशमालाबालावबोधः (सं. १४८५), योगशास्त्रबालावबोधः, षडावश्यकबालावबोधः, आराधना पताकाबालोवबोधः, नवविबालावबोधः, षष्टिशतकबालावबोधः ( सं १४९६) प्रभृतयः प्रकटयन्ति प्रतिभाप्रकर्षमद्यापि ।
(३५) चारित्ररत्नगणिः। श्रीमानसौ स्वयं परे च ग्रन्थकृतो निवेदयन्ति सर्वत्र श्रीसोमसुन्दरसूरि शिष्यत्वमस्य, परंविद्यानिधानजिनमुन्दरमरिशिष्यः
___ श्रीसोमसुन्दरगणेन्द्रनिदेशवश्यः । चारित्ररत्नगणिरल्पमतिव्यधत्त
दानप्रदीपमिमात्मपरार्थसिद्धयै ।। १५ ॥ इत्यनेन दानप्रदीपप्रशस्तिपद्येन श्रीजिनमुन्दरसूरय एवास्य दीक्षागुरवः, श्रीसोमसुन्दरसूरीणां तु गच्छाधिपतित्वेन, स्वगुरोर्गुरुत्वेन च बहुमानख्यापनार्थं दर्शयन्ति शिष्यत्वम् ।। सत्तासमयस्तु-"नवाङ्कवार्धिशीतांशु(१४९९)मिते विक्रमवत्सरे ।
चित्रकूटमहादुर्गे ग्रन्थोऽयं समपद्यत ॥ १६ ॥" इति दानप्रदीपरचनाकालमावेदयता स्वयमेव ज्ञापितो विक्रमीयपश्चदशशताब्दयुत्तरार्धरूपः श्रीमता ।
अत्रैव पृ.७० मुद्रित चतुर्विंशति जिनस्तुत्यतिरिक्ता दानप्रदीपचित्रकूटमहावीरविहारप्रशस्तिप्रमुखा श्रीमतः कृतिविनोदयति मनः सुमनसाम् ।