________________
दानादिप्रकरणम् । एवंविधस्याप्यबुधस्य वाक्यं
सिद्धान्तबाह्य बहुबाधकं यत् । दृढाइदं श्रद्दधते कदर्याः
पापे रमन्ते मतयः सुखेन ॥६३।। नामेयादिभिरन्यजन्मनि मुनेव्यस्य लक्षस्त्रिभिः
तैलाभ्यञ्जनतश्चलत्कृमि कुलं कुष्ठाकुलस्याकुलम् । सञ्चार्यान्यकलेवरे वरतरो गोशीर्षलेपः कृतो
भक्त्यावेशवशादसौ शिवकरी गुर्वी चिकित्सा कृता ॥६४॥ ततस्ततं सुखं भुक्वा निरन्तरमनुत्त[६८-१]रम् । लेभे शिवमहो ! साधुभक्तिः कल्याणकारिणी ॥६५॥ वह्निप्लुष्टं कौञ्चिकश्चोज्जयिन्यां
श्राद्धः साधु साधुतैलादिपाकैः । चित्राकारैश्चारुभिश्चोपचारैः
कृत्वा कल्पं किं न कल्याणमाप ॥६६॥ श्रद्धालुः किं श्राविका न श्रुता सा
श्रीसिद्धान्ते विश्रुता सुश्रुतानाम् । नानारूपैरौषधैः संस्कृतान्न
दत्त्वा साधु याऽर्शस प्राचिकित्सत् ॥६७॥ [६८-२]भूयांसोऽन्येऽपि कथ्यन्ते पुण्यभाजो जिनागमे । कृत्वा कृत्यानि साधूनां सम्प्राप्ताः सम्पदं पराम् ॥६८॥ ग्रहीतुं नाम केनापि भागधेयैः परैः परम् । साधूनां प्राप्यते दातुं भक्त्या भक्तादि किं पुनः ॥६९॥ यस्यान्नपानैः सन्तुष्टाः साधवः साधयन्त्यमी । स्वाध्यायादिक्रियां साध्वी तस्य पुण्यं तदुद्भवम् ॥७॥
षेऽथ व्याधिबाधायामध्या[६९-१]हृत्य विधीयते । साधूनामौषधान्नादि शेषकाले तु दुष्यति ॥७१॥ किं व्याधिबाधाः साधूनां गौरव्या यदि वा गुणाः । गुणाश्चेद् भक्तपानादि दातव्यं व्याधिना विना ॥७२॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org