________________
५०
श्रीमत्सूराचार्यविरचितम्
श्रीवर्द्धमानमुनिपुङ्गवपादपूजासम्पादनापरिणता वरसिन्दुवारैः ।
[ ६६ - २] त्वा गताऽमरगतौ किल दुर्गताऽलं स्त्रीत्यादिपूजनफलं समयप्रसिद्धम् ||५५|| किञ्चाssगमो विधिनिषेधविधायकोऽत्र
पारत्रिके खलु विधौ सुधियां प्रमाणम् । द्रव्यस्तवेऽस्ति स च नास्ति च युक्तिबाधा संसाधिकाऽधिकमतेः क्रमते च युक्तिः ॥ ५६ ॥ सम्प्राप्य ये नरभवं जिनशासनं च
संसारसागरविलङ्घनयानपात्रम् ।
द्रव्यस्तवं परिहरन्ति जडा जनास्ते
चिन्तामणि समधिगम्य परित्यजन्ति ॥ ५७ ॥ देवादिकृत्यरहिणो गृहिणः प्रहीणाः
शोच्याः सतामवमताः पशुभिः समानाः । जन्मा [ ६७ - १] न्तरे गुरु निरन्तरदुःखदूना
दीना न किञ्चन कदापि शुभं लभन्ते ॥५८॥ एवं कृत्वा कारयित्वा यतीना
माहाराचं यच्छतां नास्ति दोषः । पुण्यस्कन्धः केवलं गेहभाजां
सञ्जायेत स्वर्गनिर्वाणहेतुः ॥५९॥ प्रोक्तस्तुल्यः क्वापि यः कर्मबन्धः
सारम्भत्वात् सर्वदाऽस्त्येव तेषाम् । इत्थं चेदं प्रोक्तयुक्त्यावसेयं
सिद्धान्तार्थः शुद्धबुद्धयाऽवबोध्यः ॥ ६० ॥ इष्यते दोषलेशोऽपि प्रभूतगुणसिद्धये । यथा दष्टाङ्गुलीच्छेद च्छेकैर्जीवितहेतवे ॥ ६१ ॥ कृष्यादिकर्म बहुजङ्गमजन्तुघाति
कुर्वन्ति [ ६७ - २] गृहपरिग्रहभोगसक्ताः । धर्माय रन्धनकृतां किल पापमेषा
मेवं वदन्नपि न लज्जित एव दृष्टः ॥६२॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org