SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४० श्रीमत्सूराचार्यविरचितम् प्राप्तेऽपि पात्रे सुलभं न वित्तं वित्तेsपि पुण्यैः पुनरेति चित्तम् । दाने त्रयं कोऽपि भवाब्धिसेतुं प्राप्नोति कल्याणकलापहेतुम् ||८५|| दुरापमिदमुच्चकैस्त्रयमवाप्य पुण्योदयाद् विधत्त सफलं जना न हि विलम्बितुं सङ्गतम् । विलोक्य मुनिराकुलं विमलधीर्निधान परं विधानसहितो हि तं बत विलम्बते कोऽपि किम् ॥ ८६ ॥ दायादा आददन्ते[५५ - १] दहति हुतवहोऽम्बुप्लवाः प्लावयन्ते स्तेना मुष्णन्ति भूपोऽपहरति रटतां मोटयित्वा कृकाटिम् । मूढानां याति बाढं घनमिति निधनं घोघना धीरधन्याः साधूनामर्थयित्वाऽस्स्खलितमगलितं पालितं भुञ्जतेऽग्रे ॥८७॥ नियोगेनायोगो भवति विभवैश्वेद् विभविनां विना किञ्चित् कार्यं रचितपरितापः परवशः । वरं धर्मायासौ विमलयशसे तोषित परः प्रमोदाय स्वस्य स्ववशविहितः [५५ - २] साधितहितः ॥ ८८ ॥ अनन्तगुणमक्षतं भवति रक्षितं साधुभिः सुपात्रविनियोजितं ननु परत्र धर्मार्थिनाम् | प्रयाति निधनं घनं सदनसञ्चितं निश्चितं तथापि न धनप्रिया ददति मोहराजो बली ॥८९॥ ददति सति कदाचिन्मूलनाशेऽपि लोभा दिह हि शतसहस्रं लाभसम्भावनायाम् । ध्रुवबहुगुणला मे नो परत्रार्थनाथा जयति जनसमूहं मोहयन् मोहमल्लः ॥९॥ भोगारम्भपरिग्रहा [५६ - १ ] ग्रहवतां शीलं तपो भावनाः दुःसाधा गृहमेधिनां धनवतां दानं सुदानं पुनः । यस्तत्रापि निरुद्यमो द्रमकधी रौद्र समुद्रोपमं संसारं स कुतस्तरिष्यति बतोपायादपायाकुलम् ॥ ९९ ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002612
Book TitleDanadiprakarana
Original Sutra AuthorSuracharya
AuthorAmrutlal Bhojak, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages78
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy