________________
दानादिप्रकरणम् मालोकेन विना लोको मार्ग नालोकते यथा । विनाऽऽगमेन धर्मार्थी धर्माध्वानं जनस्तथा ॥८॥ उच्छिद्यमानो यत्नेन धर्मानुच्छेदवाञ्छया। आगमः सति सामर्थे रक्षणीयो विचक्षणैः ।।८१॥ सन्धार्याः सपरिच्छदाः श्रुतधरा वस्त्रान्नपानादिना
लेख्यं शस्तसमस्तपुस्तकमहावृन्दं सदानन्दनम् । आत्मीयं हिमरश्मिमण्डलतले नामेव नामामलं
दत्त्वा बन्धन- --[३९-२]दिविधिना संरक्षणीयं सदा ।।८२॥ द्रविणं साधारणमुरुकरणीयमथादरेण भरणीयम् । पुस्तकसङ्घादीनां निमित्तमापत्तिसम्पत्तौ ।। ८३॥ कुर्वाणा निर्वहणं धर्मस्यानिधनमित्थमिह धनिनः । बध्नन्त्यनुबन्धि शुभं निबन्धनं बन्धनविनाशे ।।८४॥ तर्कव्याकरणाचा विद्या न भवन्ति धर्मशास्त्राणि ।। निगदन्त्यविदितजिनमतजडमतयो जनाः केऽपि ॥८५॥ द्रव्यानुयोगः सकलानुयोगमध्ये प्रधानोऽभिदधे सुधीभिः । तर्कः प्रमाणं प्रणिगवतेऽसौ सद्धर्म[४०-१]शास्त्रं ननु दृष्टिवादमा८६॥ गणिते धर्मकथायां चरणे द्रव्ये भवेयुरनुयोगाः ।। व्याख्यानानि चतुर्णा तुर्यों वर्थः समाख्यातः ॥८७॥ मिथ्यादृष्टिश्रुतमपि सद्दृष्टिपरिग्रहात् समीचीनम् । किं काश्चनं न कम्र रसानुविद्धं भवति ताम्रम् ॥८८।। दीप इव शब्दविधा परमात्मानं च दीपयत्युच्चैः ।। मात्मप्रकाशनेऽपि हि जडानि पुनररन्यशास्त्राणि ॥८९। पङ्गः पथि गच्छेदपि नाशब्दविशारदो नरः शास्त्रे । कथमप्यर्थविचारे पदमपि चतुरोऽपि सञ्चरति ॥९॥ व्याकरणालङ्कारश्छन्दःप्रमुखं जिनोदितं मुख्यम् । सुगतादिमतमपि स्यात् स्यादङ्क स्वमतमकलङ्कम् ॥११॥ मुनिमतमपि विज्ञातं न पातकं ननु विरक्तचित्तानाम् । यत् सर्वं ज्ञातव्यं कर्तव्यं न त्व[४०-२] कर्तव्यम् ॥१२॥ विज्ञाय किमपि हेयं किञ्चिदुपादेयमपरमपि दूष्यम् । तनिखिलं खलु लेख्यं ज्ञेयं सर्वज्ञमतविज्ञैः ॥९॥
____Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org