________________
पञ्चमोऽवसरः आगमो वीतरागस्य वचनं स्यादवञ्चनम् । सम्मोहरागरोषाः स्युर्दोषा वञ्चनहेतवः ॥१॥ युक्तायुक्तं विवेक्तुं ना मूढो परिवृढो दृढम् । [ ३१-१]ब्रूते हेयमुपादेयं द्रव्यं कूटं खरं यथा ॥२॥ रक्तो वक्ति निराचार सदाचार सुहृज्जनम् । द्विष्टो द्विषज्जनं शिष्टमाचष्टे दुष्टचेष्टितम् ।।३।। इत्थं मोहादिदोषेण पुरुषो भाषते मृषा । रागादिदोषमुक्तस्य किमुक्तो कारणं मुधा ॥४॥ वचो विचार्यमाणं तु विचारचतुरैनरः । अकर्तृकं घटाकोटिसंटङ्क नातिटीकते ॥५॥ ताल्वादिहेतुव्यापारपारवश्येन दृश्यते । अवश्यं वचनं सर्व तत् कथं कथ्यतेऽन्यथा ॥६॥ यदुत्पाद्यः पदार्थो हि निश्चितो यो विपश्चि[ ३१-२]ता । सततः सर्वदा ज्ञेयो धूमो धूमध्वजादिव ॥७॥ अथ वेदस्य कतार नर नोपलभामहे । अपौरुषेयतामस्य परिभाषामहे ततः ॥८॥ देशान्तरादावुत्पन्नाः पदार्था ये पटादयः । अदृष्टकर्तृकास्तेऽपि नन्वेवं स्युरकर्तृकाः ॥९॥ अर्थतेषां विधातारस्तदेशादिव्यवस्थितैः । प्रमोयन्ते ततः सन्तु पौरुषेयाः पटादयः ॥१०॥ ननु वेदस्य कर्तारं तद्देशादिगता जनाः ।। न जातु जानते वेत्ति कथमेतद्भवादृशः ॥११॥ वेदकर्तृपरिज्ञातृशून्यं विश्व[ ३२-१]मिदं सदा । इति यो वेत्ति सर्वज्ञः स एव भगवानिति ॥१२॥ किञ्च वेदो निज नार्थं समर्थो भाषितुं स्वयम् । यज्ञतत्फलसम्बन्धं सम्बुध्यन्ते बुधाः कथम् ॥१३॥
____Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org