SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ दानादिप्रकरणम् नीचासनो न चासन्नो नातिदूरे न पृष्ठतः । न पार्श्वतः समश्रेण्या पुरोऽपि न पराङ्मुखः ॥३८॥ सम्मुखीनोऽग्रतः पृष्ठे स्थास्नुकायः स्थिरासनः । नैवान्नपादिकां कुर्यान्नैव पादप्रसारिकाम् ॥३९॥ अवष्टम्भं न पट्टादौ नापि पर्यङ्कबन्धनम् । नाधिक्षेपं विवादं नो न सावज्ञं न चापरम् ॥ ४०॥ व्याख्यानादन्यदाप्येषां चेतसे यन्न रोचते । अपथ्यमिव दूरेण हितैषी तद्विवर्जयेत् ॥४१॥ चित्तानुवर्ती सर्वत्र प्रविष्ट इव चेतसि । प्रवर्तेत निवर्ते[१३-२]त हितकारी प्रियङ्करः ॥४२॥ यथा पूर्व तथा पश्चाद् यथाऽने पृष्ठतस्तथा । निर्व्याजवृत्तिः पूज्यानां सुखीकुर्यान्मनः सदा ॥४३॥ इति गुरुजनं भक्त्याऽऽराध्य प्रयत्नपरायणा विमलमनसो धन्या मान्या जनस्य सुमेधसः । श्रुतजलनिधेर्गत्वा प्रान्तं नितान्तमहीयसः । सपदि सुखिनः सम्पद्यन्ते पदं परसम्पदाम् ॥४४॥ नो माता सुतवत्सला न च पिता स्वामी प्रसन्नो न वा न भ्राता सहजाञ्जसो न सुहृद। नार्था न हस्त्यादयः । यन्निष्कारणनिष्कलङ्ककरुणाः सर्वोपकारोधता [१४-१] हेयादेयविपश्चितस्तनुमतां श्रीसूरयः कुर्वते ॥४५॥ गुरूपकारः शक्येत नोपमातुमिहापरैः । उपकारैर्जगज्ज्येष्ठो जिनेद्रोऽन्यनरैर्यथा ॥४६॥ जन्मशतैरपि शक्यं नृभिरानृण्यं गुरोर्न तु विधातुम् । तद्गुणदानाभावे ते च गुणास्तस्य सन्त्येव ॥४७॥ ततो गुरूणां चरणाम्बुजं सदा कृतज्ञभावेन कृती निषेवते । पदं महासम्पदमन्यदोहित हितं मनोहारि यमा(शां)सि विन्दते ॥४८॥ ___Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002612
Book TitleDanadiprakarana
Original Sutra AuthorSuracharya
AuthorAmrutlal Bhojak, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages78
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy