SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूराचार्यविरचितम् शास्त्रनेत्रविहीनो हि वाहरोहादिवर्जितः । पशोरपि नरः पापः कथं जीवन् न लज्जितः ! ॥२७॥ नरेण शास्त्रशून्येन किं शोच्येन विपश्चिताम् । तिरश्चोऽपि जघन्येन लब्धनाशितजन्मना ॥२८॥ लाध्याः सुलब्धजन्मानः स्पृहणीया विवेकिनाम् । पूजनीया जनस्यान्ये धन्याः शास्त्रविशारदाः ॥२९।। श्रयन्ते श्रुतिनोऽश्रान्तं श्रेणिभिः श्रीमतां श्रिताः । विश्राणयन्तः श्रेयांसि श्रुतीनां विश्रुताः श्रुताः ॥३०॥ पूज्यन्ते श्रुतशालिनो [१२-१] नृपशतैराज्ञाविधेयैर्जनै-- रन्यैरप्यनुवासरं सविनयैर्भक्त्या विनेयैरिव । सेव्यन्ते च शुभोपदेशकुशला धर्मार्थकामार्थिनां साथैः स्वार्थपरार्थतत्परधियो देवा इवाराधकैः ॥३१॥ कुर्वाणा गीर्वाणा निर्वाणार्थ श्रुतस्य बहुमानम् । श्रूयन्ते श्रुतभाजा महामुनोनां च बहुमानम् ॥३२॥ जायन्ते च यतीनां श्रुतानुभावेन लब्धयो विविधाः । फलमैहिकमामुष्मिकममलामरनरशिवसुखानि ॥३३॥ धर्मार्थकाममोक्षाणां कीर्तेश्चैकं [१२ २] प्रकोर्तितम् । ज्ञानं जलमिवावन्ध्यं धान्यानां सनिबन्धनम् ॥३४॥ इदं विदित्वा श्रुत सङ्ग्रहे गुरु गुरुक्रमाम्भोजरतैरनारतम् । समीहमानैरसमा समुन्नति समुधमः सद्विधिना विधीयताम् ॥३५॥ गुरुजनमुखे भक्त्या न्यस्यन् मुहुर्मुहुरीक्षणे क्षणमपि कथां कुर्वन्नान्यां न चापरचिन्तनम् । उपचितरुचिः सूत्रस्याथै शिरोरचिताञ्जलिः पुलकितवपुः पृष्ठे जल्पंस्तथेति समाहितः ॥३६॥ उदानन्दाश्रि(क्षिणी बिभ्रन् नेत्रपात्रे पवित्रितम् । स्वं कृतार्थ [१३-१] च मन्वानः पिबेत्तद्वचनामृतम् ॥३७॥ ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002612
Book TitleDanadiprakarana
Original Sutra AuthorSuracharya
AuthorAmrutlal Bhojak, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages78
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy