________________
श्रीपल्लीपालवंशीयधनपालविरचितः
[प्र. किं वा 'कल्यापि कल्ये ऽसौ+ सहसा मोहमागमत् । किं च त्यक्तविभूषाऽपि हारं कण्ठे वहत्यमुम् ॥१०५॥ तदेतत् कथ्यतां नाथ ! महन्मम कुतूहलम् । इत्यानतेन तेनासौ पृष्टोऽवादीतू त्रिकालवित् ॥१०६॥ जीवः संसारचक्रेऽस्मिन् स्वशुभाशुभकर्मभिः । भ्राम्यमाणो मृदः पिण्ड इवैति बहुरूपताम् ॥१०७|| मानुषत्वं सुरोऽप्येति तिर्यक्त्वं नारकोऽपि च । कल्योऽप्यातत्वमीशत्वं दासोऽपीशोऽपि दासताम् ॥१०८॥ सौधर्मवासी येनासीत् सुनासीरसमः सुरः । विमानमाश्रितो लीलावतंसं ज्वलनप्रभः ॥१०९॥ आसन्नच्यवनश्चासौ परोपक[रणाद्] विना । बोधिं प्रेत्यापि दुःप्रापं मत्वा स्वर्गाद् विनिर्गतः ॥११॥ प्रवृत्ति वेदितुं तस्य प्रिया खेदवशंवदा । प्रियङ्गुसुन्दरी* नाम जम्बूद्वीपमथाऽगमत् ॥१११॥ सहैवा[गत]या पत्युर्तीपान्तरमुपेयुषः । ज्वलनप्रभमित्रस्य वियोगेन सुमालिनः ॥११२॥ सा प्रियंवदैया साई विजयं पुष्करावतीम् । गत्वा नत्वा जयन्ताख्यमप्राक्षीत् तीर्थनायकम् ॥११३॥ स्वामिन्नस्मि सखीयं मे वियुक्ते भर्तुरन्तिकम् (१)। प्रस्थिते कथय "क्वैतत्सङ्गमो नौ भविष्यति ॥११४॥ धर्मावाप्तिः कथं वा "स्यान्मर्त्यलोकावतीर्णये । ततो भगवताऽभाणि कल्याणि ! श्रूयतामिदम् ॥११५॥ अत्रैव भरतक्षेत्रे धरित्रीकुण्डलोपमौ ।
"वियेते एकशृङ्ग च रत्नकूटश्च 'पर्वतौ ॥११६॥ १ ल्पा। २ ल्पे । + कल्या=healthy; कल्ये=yesterday. cf. निरामयः कल्यः । अमर० II vi. 57. ३ ता । १ ते । ५ गी। ६ दो । ७ स्व । *प्रियगुमञ्जरी in the Ms. It is by slip of pen either of the author or of the scribe. ८ साहे । ९ प । १० मा । ११ स्कै । १२ । १३ । १४ था। १५ वी ।
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org