________________
तिलकमञ्जरीसारः। चन्द्रातपेन हारेण देवी तु हृदयस्पृशा । म्लानवक्त्राम्बुजाऽवादीत् प्रत्यभिज्ञाय देव ! माम् ॥९३॥ गन्धर्वक ! कुतो हारं कुमारः प्राप्तवानमुम् । ततोऽहं व्याहरं देवि ! मेघवाहनभूभृता ॥९४॥ नक्तं गतवता शक्रावतारजिनमन्दिरे । ज्वलनप्रभनाम्नोऽयं सुरादासादितः पुरा ॥९५॥ मय्येवैमुद्गिरत्येव देवी मोहमुपागमत् । चिराय प्राप चैतन्यं चन्दनव्यजनादिभिः ॥१६॥ पृच्छ्यमानाऽपि सा नाख्यत् सखीनां मोहकारणम् । विज्ञना च गमयाञ्चक्रे चक्रवाकीव तां निशाम् ॥९७॥ प्रातर्गुरुजन' ज्ञातवृत्तमायान्तमादृतम् । अवमन्यैव साऽचालीत् तीर्थालीवन्दनच्छलात् ॥९८॥ अथ गीर्वाणपूज्यस्य निर्वाणेनादिमप्रभोः । आरूढमहिमानं सा प्रापदष्टापदाचलम् ॥९९॥ भावितीर्थकृतां स्वस्वमानवर्णविराजिनीः । नमन्ती प्रतिमास्तत्र भरतेश्वरकारिताः ॥१०॥ स्थाने स्थाने नमस्यन्ती चारणश्रमणानपि । तत्कालकलितज्ञानमेकमालोकयन्मुनिम् ॥१०१॥ संस्तूयमानं सानन्दैः सुरासुरनभश्चरैः । प्रणम्य तमुपाविक्षत् पुरतः सपरिच्छदा ॥१०२।। कुलकम् । भवान्तरकथास्तेन कथ्यमाना महात्मना । सदुःखं शृण्वती वीक्ष्य वीरसेननृपोऽभ्यधात् ॥१०३॥ भगवन् ! दक्षिणश्रेणिचक्रवत्तितनू वा ।
यौवनस्थाऽप्यसौ जाता पुरुषद्वेषिणी किमु ? ॥१०४॥ . १ चन्द्रं । २ ता। ३ क्राः । ४ ष्ये ५ भो । ६ न। ७ च । ८ भा । ९ स्।
. १.
तू । ११ स्व । १२ ह।
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org