________________
तिलकमञ्जरीसारः।
इत्यश्रान्तोपसर्गस्य कुर्वतो मन्त्रसाधनम् । गतेषु षट्सु मासेषु स्वल्पशेषे जपे मम ॥६८॥ क्षिपन्ती दीपिकेवाङ्गमहसा सहसा तमः । एका सुरवधूरेत्य पुरो मधुरमभ्यधात् ॥६९॥ दिक्षु सत्त्वनिधे ! चक्षुर्निधेहि तव सत्त्वतः ।। प्रज्ञप्ती-रोहिणीमुख्या देव्योऽष्टापि समाययुः ॥७०॥ तत् ते प्रियं किं यच्छाम एवमुक्तोऽहमभ्यधाम् । किं प्रियं विद्युतस्यैवं मित्रेण प्रियया च मे ॥७१॥ तदनन्तरगतेरस्य प्रियं कुर्वन्तु देवताः ।। साऽब्रवीदमुनाऽप्यन्यत्स्वार्थाभ्यिथितो भवान् ॥७२॥ श्रूयतां विजया?ऽस्मिन्नुत्तरश्रेणिभूषणम् । पुरमस्ति सुरावासनिभं गगनवल्लभम् ॥७३॥ तत्र विक्रमबाहुः श्रीनिवासैकनिकेतनम् । आसीच्चक्री विरोधिस्त्रीकेलिरोधिभुजार्गलः ॥७॥ नलिनी गलितश्रीका कान्दिशीकालिमालिका । किञ्च क्रन्दत्ययं चक्रस्तीरान्तरगतप्रियः ॥७५॥ इत्यादिवाक्यैर्दिवसावसाने चारणोदितैः । भावितानित्यभावोऽभूद् विषयेषु स निःस्पृहैं ॥१६॥ जिनोक्ते' चामुना मुक्तिपुरीवमन्युरोकृते । शाक्यबुद्धिरथोद्विग्नस्तन्मन्त्री राज्यचिन्तया ॥७७॥ अपश्यन् गोत्रज राज्यधरमित्येनमादिशत् । गच्छाऽनङ्गरते ! तूर्णमेकशङ्गाख्यशङ्गिणि ॥७८॥ वयस्यान्वेषणायातं कुमारं हरिवाहनम् | तत्रोपायैर्निजैविद्यासाधनैकधियं कुरु ॥७९॥ अयं हि प्राक्तनेनैव संस्कारेणोपकारकृत् ।
प्रार्थितं तेऽन्यथा नैव कर्ता प्रकृतिवत्सलः ॥८॥ त्व । २ त्व । ३ दि । ४ One syllable is more than expacted in this quarter. The meaning is 'of one who has no other choice." ५ तु । ६ यम । ७ तूच ! ८ च । ९ ५। १० हाः । ११ क्त ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org