________________
य
प्र०
श्रीपल्लीपालवंशीयधनपालविरचितः स व्याहृतार्य ! शैलेऽत्र शिखरे चण्डगह्वरे । प्रपातसानुः संहारनामास्ते सार्वकामिकः ॥५५॥ तत्र प्रपित्सुर्विद्याभृदनगरतिरित्यहम् । निदादचलं दुष्टदायादापहृतास्पदः ॥५६॥ एषा नवस्नुषा प्राणान् प्रथमं मोक्तुमुत्सुका । तद् द्रष्टुमक्षम मङ्क्षु यातमेवं रुणद्धि माम् ॥५७॥ अथाहं विस्मृतात्माधिरालपं किमु बालक ! । क्षपयस्यात्मनोऽस्याश्च वपुर्वयसि नूतने ॥५८॥ राज्यं गृहाण मे सज्जोऽन्यस्मिन्नपि तवेप्सिते । सोऽवदन्नन्दताार्य ! राज्यं त्वय्येव तावकम् ॥५९॥ अस्ति मे मन्त्रसङ्घातः क्रमायातः फलेग्रहिः । देवताधिष्ठितः साध्यः पुंसा धैर्येक समना ॥६॥ तदाराधनलब्धाधिविक्रमः क्रमिकं पदम् । मह्यं देहीति तद्वाक्यमहमप्यर्युपागम[म्] ॥६१॥ तेनाऽथ विधिवद् दत्तविश्वमन्त्रेण दर्शितम् । शिक्षिताराधनोऽविक्षं गम्भीरं गिरिगह्वरम् ॥६२॥ तेनोपनीतपुष्पादि निस्तन्द्रः संयतेन्द्रियः । त्रिसन्ध्यं निझरे स्नात्वाऽभ्यर्च्य विद्यादिदेवताः ॥६३॥ बद्धपद्मासनस्तत्र प्रारेभे मन्त्रसाधनम् । ध्यानेऽथ यातुधानी मे विघ्नमाधातुमाययुः ॥६४॥ युग्मम् । केचित् कोशलनाथस्त्वामानेतुं प्राहिणोदिति । केचिच्चतुरिकावेषधारिणो लेखमक्षिपन् ॥६५॥ केचिदूचुर्वयस्यस्ते दिष्ट्या दृष्टोऽस्ति वर्द्धसे । केचिच्च चित्कृते ताम्यत्यलं तिलकमञ्जरी ॥६६॥ वीक्ष्य मां निश्चलं तेऽनुतेनुर्जातु दवानलान् ।
निर्घाताजातुचित् सिंहनादानपि कदाचन ॥६७॥ १व । २ त । ३ म । ४ म । ५ र्य । ६ चा । ७ च । ८ भु । १. जा। ११ नो । १० में । १३ वर्य । १५ वने ।
र ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org