________________
वाचनाचार्य अमृत धर्माष्टकम्
३०७
वाचनाचार्य-अमृत धर्माष्टकम् ।
श्रीवाचनाचार्यपद प्रतिष्ठा गणीश्वरा भूग्गुिणैर्गरिष्ठाः । सत्य प्रतिज्ञामृतधर्म संज्ञाः जयन्तु ते सद्गुरवो गुणज्ञाः ॥१॥ गणाधिप श्रोजिनभक्तिसूरि, प्रशिष्य संघात सुविश्रुतानाम् । येषां जनिः श्रीमति वृद्धशाखे उकेश वंशेऽजनि कछदेशे ॥ २ ॥ भट्टारक श्री जिनलाभ सूरयः श्रीयुक्त प्रीत्यादिम सागराश्च ये । आसन सतीर्थ्याः किल तद्विनेयतामवाप्य यः प्राप्तमनिंदितं पदम् ।।३।। शत्रुजयाग्रुत्तम तीर्थयात्रया सिद्धांतयोगोढहनेन हारिणा । संवेग रंगाहत चेतसा पुनः पवित्रितं यनिजजन्म जीवितम् ॥ ४ ॥ जिनेन्द्र चैत्य प्रकरो मनोरमो वरेण्य हेम्नः कलशैविराजितः । व्यधापि(यि?) संघेन च पूर्व मंडले येषां हितेषामुपदेशतः स्फुटम् ।।५।। प्रभूतजंतून प्रतिबोध्य ये पुनः स्वर्गगता जेसलमेरुसत्पुरे । समाधिना चंद्र शराष्टभूमिते संवत्सरे माघ सिताष्टमी तिथौ ॥६॥ स्थानाङ्ग सूत्रोक्त वचोनुसाराद्विज्ञायते देवगतिस्तुयेषाम् । यतो मुखादात्म विनिमोभूत्साक्षात्तु विज्ञानभृतो विदंति ॥ ७ ॥ एवं विधाः श्रीगुरुवः सुनिर्भरं कृपापराः सर्वजनेषु साम्प्रतम् । क्षमादि कल्याण गणिं प्रति स्वयं प्रमादकृद्राग् ददतु स्वदर्शनम् ।। ८॥
इति श्रीमदमृतधर्म गुरूणामष्टकम् ।
Jain Education International 2010_05 For Private & Personal Use Only
www.jainelibrary.org