________________
अंतरंगकथा
१६१
महीपालस्ततः प्राह, विस्मयस्मेरलोचनः । कथं नाथ ! त्वया लब्धं, ज्ञानं कथय केवलम् ? ॥१०५॥ मनिः प्राह महीनाथ !, भवं भ्रान्त्वा क्रमादयम् । भवजन्तुः समुत्पन्नः, पुरे गगनवल्लभे ॥१०६॥ भानो विद्या धरेन्द्रस्य सर्वलक्षणलक्षितः ।। सुनुररिन्दमो नाम्ना, भानुमत्युदरोद्भवः ॥१०७।। सह विद्याभिरभ्यस्य, स दक्षः सकलाः कलाः । महाविदेहसत्क्षेत्रे, कदाचित् कौतुकी ययौ ॥१०८।। स तत्र तीर्थनाथस्य, शुश्राव श्रोत्रहारिणीम् । भद्रङ्करस्य पादान्ते, भवजन्तकथाप्रथाम् ॥१०९॥ आपृच्छ्याऽऽपृच्छ्य विज्ञाय, सर्वे चरितमात्मनः । जातिं स्मृत्वा विरक्तोऽसौ, तस्यान्ते व्रतमग्रहीत् ॥११०॥ प्रेयस्या प्रेयर्माणोऽसौ, भवितव्य तया तया । चरित्रधर्मभूपालं, पुरस्कृत्य ससैन्यकम् ॥१११।। सर्वं मोहमहीनाथसैन्यं हत्वा समन्ततः । संयम मोचयित्वा च, ज्ञानं लेभे स केवलम् ॥११२।। इत्थं प्राप्तं महाराजन् ! ज्ञान केवलसंज्ञकम् । भवोऽसंव्यवहारादिवैराग्याय ममाभवत् ॥११३।। प्रायो मदीयमेवेदं, चरितं सर्वदैहिनाम् । ततोऽन्तरङ्गशत्रूणां, जयाय यततां भवान् ॥११४॥ अथ पप्रच्छ राजेन्द्रः, किं भव्यो भगवत्रहम् ? । कदा वा मम शक्तिः, स्यादन्तरङ्गारिनिग्रहे ॥११५॥ उवाच केवलज्ञानी, भव्य एवाऽसि हे नृप ! । भवादस्मात् तृतीयेऽस्मिन्, भवान् भावी जिनेश्वरः ॥११६।। श्रीमान् पद्मप्रभो नाम, जम्बूद्वीपस्य भारते । इत्याद्युक्त्वा मुनीन्द्रोऽसौ, विजहार वसुंधराम् ॥११७॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org