________________
१६०
सिरिपउमप्पहसामिचरियं
प्रत्युप्रेक्षादियोगांश्च न काले कुरुते कुधीः । पृथ्वीकायादिसत्वानामनपेक्षश्च रक्षणे ॥१२॥ जजागार न सन्ध्यास, देशनास न तत्परः । क्रियासु न स तात्पर्यो, वाचनासु न सोद्यमः ॥१३॥ गुप्तिभिर्न स गुप्तात्मा, समित्यां समितो न च । द्विचत्वारिंशता दोषैर्दुष्टं तत्याज नाशनम् ॥९४|| निःसम्बन्धविहारं न, न कषायजयं व्यधात् । दमनं नेन्द्रियाणां च, स प्रमादेन मेदुरः ॥१५॥ अन्याचार्यैरपास्याः किमनर्थाः किं रसादिषु ? इत्युक्त्वा वृषभैर्गाढं, समैधि कोपतः कधी ॥१६॥ इत्थं स्थितो विमूढात्मा, स प्रमादवशंवदः ।। विदाकरोति नैवाहं, यन्निमग्रोऽस्मि सर्वथा ॥९७॥ एवं प्रमाद्यतस्तस्य, क्रियां श्लथयतः क्रमात् । चतुर्दशापि पूर्वाणि, विस्मृतानि समन्ततः ॥९८॥ सम्यक्त्व-ज्ञान-चारित्रच्युतो मृत्वा च स क्रमात् । एकेन्द्रियेषु संजज्ञे, प्रियया प्रेरितस्तया ॥१९॥ अपारे घोरसंसारे, ससार स निरन्तरम् ।। नितान्तं सखदःखानि सहमानो भवे भवे ॥१०॥ वृत्तान्ताः पूर्वमाख्याताः वृषभादिभवोद्भवाः । प्रायेण बहुधाऽनेनानभूता भवजन्तुना ॥१०१॥ तस्य संसारिजीवस्य, चरितेन चमत्कृतः । अपराजितभूपालस्ततः प्राह महामुनिम् ॥१०२।। नाथ ! संसारिजीवोऽसौ, साम्प्रतं वर्तते कथम् ? . क्व वा ? केनाप्युपायेन तस्य भव्यमभूत् क्वचित् ? ॥१०३॥ स मुनिः प्राह विज्ञेयः, स एवाहं त्वयाऽनघ ! । यः परस्तव सद्धर्म, देशयनस्मि साम्प्रतम् ॥१०४॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org