________________
अंतरंगकथा
१५९
चारित्रनृपतेः सैन्यं, तत् पलाय्य समन्ततः । विवेकगिरिदुर्गान्तः, प्रविवेश भयातुरम् ॥७९॥ राजा मन्त्रिणमाहूय, पप्रच्छ वद साम्प्रतम् । अयं वीरः कथङ्कार, मोचनीयो रिपोर्ग्रहात् ? ॥८॥ स प्राह देव ! संसारिजीवोऽस्माकं ध्रुवं प्रभः । विक्रीयते पनः सोऽपि, भवितव्यतयाऽनया ॥८१ ।। मा विषीद ततः स्वामिन् ! कालपर्यायतो यदा । भविष्यत्यनकूला सा, तदाभव्यं भविष्यति ॥८२ ।। इतश्च मोहराजेन, गृहीते संयमे तदा । तस्य संसारिजीवस्य, यज्जातं तद् ब्रवीम्यहम् ॥८३॥ संयम-ध्यान-मौनेष, श्लथोऽत्यन्तमभूदयम् । आवश्यकादिनो चक्रे, लोकतप्तिपरायणः ॥८४।। अहं विद्वानहं मान्यो, नान्यो मत्तः कविः क्वचित् । आदेयवचनश्चाहमिति चिन्तां चकार सः ॥८५।। अहो ! महन्मम ज्ञानं, महद् भाग्यमहो । मम । अहो ! शिष्या महान्तो मे, ममैनश्वर्यमहो ! महत् ॥८६॥ वस्त्र-पात्रादिवस्तूना, मम लब्धिर्महत्यहो ! । यद्वा प्रसिद्धमेतद्धि, सर्वं हि महतां महत् ॥८७॥ अरसं विरसं रूक्ष, न भङ्क्ते रसगौरवात् । मधुर-स्निग्धभोज्यानि, गृध्रुरर्थयतेऽन्वहम् ॥८८॥ सातगौरवतो देहं, परिमार्टि निरन्तरम् । इयेषु दुःखविद्वेषी, मनोज्ञशयनाऽऽसने ॥८९।। न सूत्रपौरुषी चक्रे, न चक्रे चार्थपौरषीम् । चक्रवालसमाचारं, नाऽऽचचार यथाविधिः ॥९०॥ उपविष्टेष शिष्येष, व्याख्यानाय स मूढधीः । सिंहासनात् समुत्थाय, निद्रां चक्रे निराकुलः ॥९१ ।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org