________________
१५८
सिरिपउमप्पहसामिचरियं
चारित्रधर्मभूपालो, विरत्या प्रिययान्वितः यतिगृहस्थधर्माभ्यां, कमाराभ्यां समन्वितः ॥६६॥ सम्यग्दर्शनसंज्ञेन, महामात्येन संयतः । बोधसचिव-सन्तोषसेनान्या परिवारितः ॥६७।। विदित्वा समयं स्वीयं मन्त्रयित्वा निजैः सह । उत्ततार ततो दुर्गाद्, योद्धं मोहमहीभुजा ॥६८॥ रथाः शौर्यादयस्तस्य, प्रश्रयाद्या महागजाः हया बुद्धि पटुत्वाद्याः, दाक्षिण्याद्याः पदातयः ॥६९॥ तं समायान्तमालोक्य, मोहराजोऽपि सत्वरम् । रथैः क्रौर्यादिभिर्युक्तो, ममत्वाद्यैर्महागजैः ॥७०॥ लौल्यादिभिस्तुरंगैश्च, दुष्टत्वादिपदातिभिः । अन्यैरपि कुमाराद्यैर्बुढौके रणकाम्यया ॥७१ ।। छिन्नबाण-धनश्छत्रा भिन्नमण्डितमस्तकाः । घातिता मारिता नष्टाः, बहवस्तत्रसैनिकाः ॥७२॥ अथ तद् रणमालोक्य, दुष्प्रेक्षं घुसदामपि ।। वैराग्यं हयमारूढो, गृहीत्वा शक्तिमुद्धरम् ॥७३॥ सहैव सप्तदशभिः, कुमारैर्विश्वजित्वरैः यतिधर्माग्रणीवीरः, उत्तस्थौ संयमस्ततः ॥७४।। तेन वीरेण धीरेण, सर्वशक्त्या प्रहण्वता । सरोवद् गजराजेन, मोहसैन्यं विलोडितम् ॥७५॥ क्वमोहः स क्व मोहोऽस्ति ? ब्रवंस्तारमिति क्षणात् । मोहराजान्तिकं प्राप, समन्तात् प्रहरव्रयम् ॥७६॥ अथसंसारिजीवस्य, दयिता भवितव्यता । . मोहराजेन्द्र मैक्षिष्ट, सुधामधुरयादृशा ॥७७।। अनुकूलामिमां ज्ञात्वा, स सहस्त्रगुणोऽभवत् । प्रहारैर्जर्जरं कृत्वा, ततः संयममग्रहीत् ॥७८॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org