________________
अंतरंगकथा
१५७
अन्यदा विश्वसेनस्या सम्भाव्यां पृथिवीपतेः । अविभाव्यैव दुर्बुद्धिर्वार्ता चक्रे विरोधिनीम् ॥५३॥ तत्र सर्वत्र तां दैवाज्जनो वार्तामपप्रथत् । राजा विज्ञाय तत् सर्वं, मूलशुद्धिमचीकरत् ॥५४॥ पारम्पर्येण सा वार्ता, तस्यां विश्रान्तिमासदत् । कोपातिरेकतः सद्यो, भूपतिस्तामजूहवत् ॥५५॥ विशाम्पत्या ततः पृष्टा, सा न किञिचदेवोचत । अयं क्रुद्धस्ततोऽमुष्याः, श्रवणौष्ठमलीलवत् ॥५६॥ महीपालोऽतिवाचालां, तां परान्निरकासयत् । सम्पदं विपदं सूते, वाणी हारिण्य हारिणी ॥५७|| अटाट्यमानाऽटव्यां सा निशिदष्टा महाहिना । जज्ञे ऋद्धाविशांपत्यौ, चतर्थ्यां नारको भवि ॥५८॥ सैष संसारिजीवोऽथ, क्रमाद् राजपुरे पुरे । राजसिंहस्य राज्ञोऽभूनन्दनो नरसुन्दरः ॥५९। कलामधीत्य तारुण्ये, नवे क्षेमंकराद् गरोः । श्रुत्वा धर्म विरक्तात्मा, परिव्रज्यां प्रपत्रवान् ॥६०॥ चतुर्दशापि पूर्वाणि, भूतग्रामां श्चतुर्दश ।। अध्यैष्ट पालयामास, सोऽन्तेवासि शिरोमणिः ॥६१ ॥ तस्मै गरुः प्रसन्नात्मा, क्रमादाचार्यकं ददौ । सोऽप्याचाररतः सम्यगाचार्यश्रियमौजढत् ॥६२॥ लोकोपकारनिरते, तस्मिन् ज्ञान-क्रियारते । जितवादीन्द्रसंघाते, यज्जातं कथयामि तत् ॥६३॥ विवेकगिरिदुर्गस्थो, दानादिचतुराननः । उच्चैश्चित्तसमाधान, महामण्डपमाश्रितः ॥६४।। जीववीर्यासनासीनो, दर्शनादेवदेहिनाम् । प्रत्यूहव्यूहसंहर्ता, कर्ता स्वर्गादिसम्पदाम् ॥६५॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org