________________
१५४
सिरिपउमप्पहसामिचरियं
पत्राणां जातमात्राणां, अङ्गोपाङ्गान्यतो ध्रुवम् । छिन्द्धि राज्यं तवैवेदं, भावि शाश्वतिकं ततः ॥१४॥ सर्वमेतत् तथा चक्रे, सैष लोभहतः कुधीः । नितान्तं वार्यमाणोऽपि, प्रियाभिः सचिवैस्तथा ॥१५॥ दीर्धदर्शी ततो मन्त्री, तैतलि म शद्धधीः । चक्रे गृहीत सङ्केता, पट्टदेवी मनोरमाम् ॥१६॥ राज्ञां मन्त्रिप्रियायां च, प्रसूतायां सहैव हि । संचार्य स्वसुतां मन्त्री, रक्षति स्म नृपाङ्गजाम् ॥१७॥ राजा प्रेक्ष्य सुता जाता मक्षताङ्गाममुञ्चत । नास्ति वैरं निजापत्ये यदि स्वार्थो न हीयते ॥१८॥ पद्म इत्यभिधां तस्य, चक्रे मंत्री शुभे दिने । वर्धमानः क्रमेणैष, जग्राह सकलाः कलाः ॥१९॥ पुत्रं मनोहराकारं तं विलोक्य मनोरमा । अनाप्य स्वगृहे छत्रमुपलालयतिस्म सा ॥२०॥ कथंञ्चित्तेन सा पृष्टा, सर्वं सत्यमचीकथत् । स्नेहतः प्रकटो जज्ञे, स्वभावो नात्र कौतुकम् ॥२१॥ अथ मेघरथोऽन्येधुर्भङ्क्त्वा तद्दारुपंजरम् । दधावे पत्रघाताय गदामादाय, दृष्टधीः ॥२२॥ पितापुत्रौ राज्यलुब्धावन्योन्याघाततो हतौ ।। नारकत्वेन जज्ञाते, पञ्चम्यां नारकावनौ ॥२३॥ पिता-पत्रेण पत्रोऽपि, पित्रामार्येत सत्वरम् ।। येन लोभेन तं पापमित्रं नात्यजतः सुखम् ॥२४॥ उद्धृतः स ततो भीमभवचक्रे क्वचित् कुधीः घ्राणेन क्वचिदक्षिभ्यां, श्रोत्राभ्यां च विडम्बितः ॥२५॥ अथ संसारजीवोऽसौ, भवं भ्रान्त्वा समन्ततः । धन्यस्य कन्यका जज्ञे, विशालाया महापुरि ॥२६॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org